© 2025 Jagadguru Madhvacharya Website Trust. All Sanskrit texts, transliterations, translations, and commentaries on this website (jagadgurumadhvach
Branch उवाच
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च । एतद्वदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ १३.१॥
पूर्वषङ्कद्वयोक्तार्थसङ्ग्रहपरोऽयमध्यायः । तथाहि । यत्प्रथमषढे त्रैगुण्यविषया वेदा' (२.४६) इत्यादिना प्राचुर्येण ज्ञानसाधनमाषष्ठसमाप्तेरुक्तम्, यच्च तत्र द्वितीयेऽध्याये 'न त्वेवाहं' (२.१२) इत्यादिनाऽनादिनित्यत्वादिना जीवस्वरूपमुक्तम्, यच्च द्वितीयषढे भगवत्स्वरूपमुक्तम्, यदपि सप्तमे भूमिराप' (७.४) इत्यादिना क्षेत्रशब्दितं भगवदावासस्थानमुक्तम्, तद्विकीर्णतयोक्तं सर्व बुद्ध्यारोहार्थ सङ्क्षिप्यास्मिन्नध्याये प्रश्नपूर्वक प्रदश्यते ॥ प्रकृतिमित्यादिना । पुरुषं जीवम् । ज्ञानं ज्ञानसाधनम् ॥ १३.१ ॥
श्रीभगवानुवाच
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १३.२॥
ननु भगवत्स्वरूपज्ञानस्यैव पूर्वोक्तदिशा मुक्तिहेतुत्वात्त-त्स्वरूपोक्तिर्युक्ता । क्षेत्रस्वरूपं महाभूतानि' (१३.६) इत्यादिना किमर्थमत्रोच्यत इति चेन्न । क्षेत्रज्ञत्वविशिष्ट-भगवज्ज्ञानोपयोगित्वात्क्षेत्रोक्तिरिति क्षेत्रोद्देशपूर्व भगवतः क्षेत्रज्ञत्वमाह ॥ इदमिति। कौन्तेय इदं शरीरं अव्यक्तमहदहङ्कारादिकं भगवदावासस्थानत्वात् क्षीयते स्थीयतेऽत्र भगवतेति व्युत्पत्त्या क्षेत्रमित्यभिधीयते । एतदवव्यक्तादिकं क्षेत्रशब्दितं यो वेत्ति जानाति तं तद्विदः क्षेत्रविदः क्षेत्रज्ञमिति प्राहुरित्यर्थः । शरीरशब्दस्याव्यक्तादिपरत्वं
च स्वपरिणामदेहादिवियोगद्वारा जीवस्य हिंसादिहेतुत्वात् शर, शु हिंसायामिति धातोः, भगवता प्रेर्यत्वादीरं च । ईर प्रेरण इति धातोः । शर् च तदीरं चेति शरीरमिति व्युत्पत्तेरिति ज्ञेयम् । तेन सङ्घातश्चेतनेति सङ्घातपदेन क्षेत्रविकारेष्वेकदेशत्वेनोक्तशरीरस्य कथं समस्तक्षेत्रत्वमुच्यत इति शङ्का निरस्ता ॥ १३.२॥
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्डानं यत्तज्ज्ञानं मतं मम ॥ १३.३ ॥
जीवस्यापि किञ्चित्क्षेत्रज्ञानात्स किं क्षेत्रज्ञ इत्यत आह ॥ क्षेत्रज्ञं चेति । सर्वक्षेत्रेष्वव्यक्तादिषु क्षेत्रज्ञं तु मां विद्धि । न जीवम् । क्षेत्रक्षेत्रज्ञयोर्यज्ज्ञानं तज्ज्ञानं मतमित्यर्थः । अत्र सर्वक्षेत्रेष्वित्युक्तिरिदं शरीरमित्यत्र शरीरपदोक्ताव्यक्तादेः क्षीयतेऽत्रेश्वरेणेति व्युत्पत्त्या क्षेत्रपदवाच्यत्वमिति सूचनाय ॥ १३.३ ॥
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । सच यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ १३.४ ॥
क्षेत्रादिस्वरूपं वक्तुं प्रतिजानीते ॥ तत्क्षेत्रमिति । तत्क्षेत्रं यद्भगवन्निवासस्थानतया क्षेत्रपदोक्तं । देहद्वारा जीवहिंसाहेतुतया ईश्वरप्रेर्यत्वहेतुना च शरीरपदेन प्रकृतं अव्यक्तादि, यच्च यत्स्वरूपं यादृक् यत्प्रकारं यद्विकारि। कर्मधारयात् मतुप् । येन विकारेण (सं) युक्तम् । यतः यादृशप्रवृत्त्यनुकूलधर्मयुक्तात्पुरुषात् । यत् । इणः शत्रतं रूपम् । गतिमत् । प्रवर्तत इति यावत् । स च प्रवर्तकः यः यत्स्वरूपः यत्प्रभावः यादृशप्रवृत्त्यनुकूल-धर्मेतरसामर्थ्यवान्, तत्सर्व समासेन सङ्क्षेपेण में सकाशाच्छृणु श्रुत्वा निष्ठां कुरु ॥ १३.४ ॥
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपर्दैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ १३.५ ॥
श्रोतृविश्वासजननायोच्यमानं प्रामाणिकमित्याह ॥ ऋषिभिरिति । तदित्यनुषज्यते । यच्छ्रण्वित्युक्तं क्षेत्रादिस्वरूपं तदृषिभिर्वहृधा गीतम् । गै शब्दे। उक्तमित्यर्थः । विविधेः छन्दोभिर्वेदैः । प्रत्येक गीतमिति सर्वत्रानुषज्यते । हेतुमद्भिः न्यायोपेतेः ब्रह्मसूत्रपदेश्व विनिश्चितमेव
तेन तच्छक्तिर्लक्ष्यते। पाणिपादादिशक्तिम (न्तः) त्सर्वेऽप्यवयवाः स्वस्वेतरावयवशक्तिमंत इत्यर्थः । शुक्रकृष्णकेशावतारयो-र्बलरामकृष्णयोः पाणिपादादिशक्तेर्दर्शनात् । एवं सर्वतः सर्वावयवेषु वयवेषु चक्षुरादिशक्तिमदिर्यर्थः । सर्वतः सर्वावयवेषु सवावयवषु श्रुतिमच्छ्रोत्रेन्द्रियशक्तिमत् । सर्वेन्द्रियाणां विषयान्कर्माणि च सर्वेन्द्रियैः वेत्ति करोति चेति यावत् । लोके जगति सर्व वस्तु आवृत्य तिष्ठति व्याप्य वर्तते । यद्वा सर्वतः सर्वत्र देशे स्थितं तद्ब्रह्म पाणिपादाक्षिशिरः प्रभृत्यवयवोपेतं सत् लोके सर्व वस्तु व्याप्य तिष्ठति इति । अणोरणुतरः पाणिपादाद्यवयवोपैतईः अनंतरूपैः सर्वत्र स्थितं सत् व्याप्तरूपेण च सर्वमपि व्याप्य वर्तते ब्रह्मेति भावः ॥ १३.१४ ॥
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तु च ॥ १३.१५ ॥
किञ्च सर्वेन्द्रियगुणाभासं तद्ब्रह्म सर्वाणीन्द्रियाणि गुणान् शब्दादिविषयांचाभासयति प्रत्याययत्ति प्रत्येति वा सर्वेन्द्रियगुणाभासम्। भासू दीप्ती इत्यतः पचादाच् । प्राकृतानां भिन्नानां चेन्द्रियाणामभावात्सर्वेन्द्रियविवर्जितम् । असक्तं निर्लेपम् । सर्व भुक्तं इति सर्वभुक् च । सर्वसंहर्तु इति वा सर्वसारभोक्तृ इति वाऽर्थः । सर्वभृच्चेति पाठांतरम् । गुणभोकृ च सर्वकल्याणगुणभोकु चेत्यर्थः ॥ १३.१५ ॥
बहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १३.१६ ॥
किञ्च भूताणां सर्वप्राणिनां बहिरंतश्च परं ब्रह्म तिष्ठतीत्यनुषज्यते । अन्यथाभावराहित्यादचरम् । सर्वदेशेषु चरणाङ्गमनाच्चरम् । सूक्ष्मत्वादप्रतिघात्वात्तद्-ब्रह्माविज्ञेयं अग्राह्यमिन्द्रियाविषयः । सर्वगतत्वाद्दूरे अंतिके समीपे च स्थितं तत् ॥ १३.१६ ॥
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १३.१७ ॥
किञ्च भूतेषु नानाविधप्राणिष्वविभक्तमेव विभक्तमिव स्थितम् । अज्ञानां तथा प्रतीतमिति यावत् । भूतभतृ भूतानां भर्तृ धारणपोषणकर्तृ तद्ब्रह्म ज्ञेयम् ।
ज्ञाने नियतत्वम् । तत्त्वज्ञानार्थदर्शनम् । अपरोक्षज्ञानार्थ शास्त्रपर्यालोचनम् । एतत् 'अमानित्वं' इत्यादिनोक्तं विंशतिधर्मजातम् । ज्ञानमिति ज्ञायतेऽनेनेति करणव्युत्पत्त्या ज्ञानसाधनं प्रोक्तम् । अतोऽन्यथा यदस्ति तदज्ञानं ज्ञानसाधनं नेत्यर्थः । यद्वा ज्ञानशब्दः भावव्युत्पत्त्या संवित्परश्च । तत्त्वज्ञानार्थस्य तत्त्वज्ञानविषयस्य विष्णोर्दर्शनं अपरोक्षज्ञानमित्यर्थः । एतद्भगवद्विषयापरोक्षज्ञानं ज्ञानमिति प्रोक्तम् । अतोऽन्यथा यत् तज्जानं न भवतीति । इह ज्ञानशब्दो ज्ञानतत्साधनोभयपरः । तत्त्वज्ञानार्थदर्शनमित्ययमप्युक्तदिशा शास्त्रपर्यालोचनरूपज्ञानसाधनपरः, अपरोक्षज्ञानपरश्च । ततञ्चैतच्छब्देनोभयं परामृश्य ज्ञानशब्देन भावकरणो भयव्युत्पत्त्या ज्ञानसाधनत्वज्ञानत्वयोर्विधानं युक्तमिति ज्ञेयम् ॥ १३.१२ ॥
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १३.१३ ॥
एवं ज्ञानं ज्ञानसाधनं चोक्तृत्वाऽधुना सच यो यत्प्रभावश्चेति प्रतिज्ञातज्ञेयस्वरूपं तत्प्रभावं च प्रतिज्ञापूर्वमाह ॥ ज्ञेयमित्यादिना । आदरजननाय तज्ज्ञानस्य फलमाह ॥ यज्ज्ञात्वेति 'सचय' इति प्रतिज्ञातज्ञेयस्वरूपोक्तिः ॥ परं ब्रह्मेति । नामोक्क्या तत्स्वरूपस्यावगतेः अहमेवेति वक्तव्ये 'अक्षरं ब्रह्म परमम् (८.३) इति अष्टमोक्तिदिशा ब्रह्म स्वयमेवेति सिद्धमिति भावः । स च यत्प्रभाव इत्युक्तमाह ॥ अनादिमदित्यादिना । आदिरेषामस्तीत्यादिमन्ति देहेन्द्रियादीनि । ततो बहुव्रीहिः । प्राकृतदेहेन्द्रियगुणकर्मादिहीनमित्यर्थः । भगवान्क्षेत्रांतर्गतो भूत्वा क्षेत्रज्ञ इत्युच्यते किमित्यतो नेत्याह ॥ नेति । तद्ब्रह्म साक्तशब्दितकार्यजातांतर्गतं नेत्युच्यते । असदव्यक्तशब्दितकारणांतर्गत नेत्युच्यते । व्यक्ताव्यक्तविलक्षण' इति स्मृतेः । यद्वा मृर्तामृर्तव्यतीतत्वान्न सत्तन्नासदुच्यते' इति स्मृत्युक्तदिशा मूर्त न, अमूर्त च नेत्युच्यत इति, नेति नेति' इत्यादिश्रुतावित्यर्थः ॥ १३.१३ ॥
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३.१८ ॥
पुनस्तत्प्रभावमाह ॥ सर्वत इति। कथं जगद्वलक्षण्यं हरेरित्यतो वाऽऽह ॥ सर्वत इति । तत्प्रागुक्तं परं ब्रह्म सर्वतः सर्वावयवेषु पाणिपादं द्वन्द्वैकवद्भावः प्राण्यङ्गत्वात् ।
तथा शृण्वित्यन्वयः ॥ १३.५ ॥
महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ १३.६ ॥
क्षेत्रं यच्च यादृक् च तच्छ्रुण्विति प्रतिज्ञातमाह ॥ महाभूतानीति । पञ्चमहाभूतानि । महत्तत्वमप्यहङ्कारशब्देन गृह्यते । बुद्धिरन्तःकरणविशेषः । अव्यक्तं त्रिगुणात्मकं प्रधानम् । 'इन्द्रियाणि दशैकं चे'ति ज्ञानेन्द्रियमनोभेदेनेकादशेन्द्रियाणि । इन्द्रियगोचराः श्रोत्रादिविषयाः शब्दाद्याः पञ्च च । एतत्क्षेत्रं समासेन सङ्क्षेपेण महाभूतत्वादिप्रकारोपेतमुदाहृतमित्यन्वयः ॥ १३.६ ॥
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ १३.७ ॥
क्षेत्रं यद्विकारीति प्रतिज्ञातक्षेत्रविकारानाः ॥ इच्छेति । सङ्घातो देहः । चेतना चेतसो व्याप्तिः। धृतिर्धेर्यम् । एतत्प्रागुक्तं क्षेत्रं इच्छादिविकारोपेतं सङ्क्षेपेणोक्तमित्यर्थः । महाभूतादिक्षेत्राभिमानिनः । तद्विकारेच्छाद्यभिमानिनश्चावश्यं ज्ञेयत्वादुच्यन्ते । आकाशाभिमानी विघ्नेशः । वायुमानी मुख्यवायुजो अभिमानी मरीचिनामा । अग्निमानी वह्निः। अवभिमानी वरुणः । भूमिमानिनी धरादेवी। अहङ्कारः शिवः। महान्ब्रह्मा। बुद्धिरुमा । अव्यक्तं श्रीदेवी । इन्द्रियेषु मनोऽभिमानिनः स्कन्देन्द्रानिरुद्धाः । क्षेत्रं चन्द्रः । त्वक् वायुसुतो मरुत् । चक्षुः सूर्यः । जिह्वा वरुणस्य रूपान्तरम् । ब्राणमश्विनी। वागग्निः । हस्तौ वायुसुतौ मरुती । पादौ तु विष्णुनाविष्टी शचीसुतौ यज्ञशम्भुनामकौ । पायुर्यमः । उपस्थः शिवः मनुश्च । इन्द्रियगोचरेषु शब्दस्पर्शरूपरसगन्धाभिमानिनः शिवपुत्राः पञ्च्च ज्ञेयाः । विकारेषु इच्छा श्रीर्भारती च । द्वेशदुःखाभिमानिनौ कलिद्वापरी । सुखं मुख्यवायुः। धृतिः सरस्वती भारती च । चेतना श्रीः । सङ्घातमानिनोऽन्ये चेतनाः ज्ञेयाः। अभिमानिनां प्रागुक्तव्युत्पत्त्या भगवन्निवासत्वादेव क्षेत्रनामत्वम् । क्षेत्रविकारित्वमपि महदादिभ्योऽतिशयेन विकारितया स्थितत्वादिति ज्ञेयम् ॥ १३.७ ॥
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ १३.८ ॥
एवं प्रतिज्ञातार्थषङ्कमध्ये यच्च यादृक्च यद्विकारीति
त्रयमुक्त्वा यतश्च यदिति (अग्रे) वक्ष्यन् ततः प्राक् स च यो यत्प्रभावश्चेति प्रतिज्ञातार्थद्वयं "ज्ञेयं यत्तदि" त्यादिना वक्तुं न यादृशतादृशेन श्रवणेन तदनुभवारुढं भवतीति भावेन वक्ष्यमाणज्ञेयद्वयभूतभगवज्ज्ञानस्य साधनान्याह ॥ अमानित्वमित्यादिपञ्चकेन । अमानित्वमात्मनः श्लाघनराहित्यम् । आत्माल्पत्वं ज्ञात्वाऽपि महत्त्वप्रदर्शनं दम्भः । तद्राहित्यमदम्भित्वम् । क्षान्तिः । सहिष्णुत्वम् । आर्जवं सन्मार्गे मनोवाक्कायकर्मणामवैपरीत्यम्। आचार्योपासनं ज्ञानिनां सेवा । शौचं बाह्यान्तरशुद्धिः । शीचं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्य भावशुद्धिस्तथाऽऽतरं इति स्मृतेः। स्थैर्य भयादिना स्वधर्मादचलनम् । आत्मविनिग्रहः विशेषेण मनसो नियमनम् ॥ १३.८ ॥
इन्द्रियार्थेषु वैराग्यमनहंकार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ १३.९ ॥
इन्द्रियार्थेषु वैराग्यं शब्दादिषु रागाभावः। अनहङ्कारः अविद्यमानात्मगुणाभिमानमोहाभावः । जन्मादिषु दुःखदोषयोरनुदर्शनमिति वा दुःखस्वरूपस्य दोषस्यानुदर्शनमिति वा । अनुक्षणमनुसन्धानमित्यर्थः ॥ १३.९ ॥
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ १३.१० ॥
पुत्रदारगृहादिषु असक्तिः स्नेहाभावः । अनभिष्वङ्गः अतिपक्वस्नेहाभावः । इष्टानिष्टोपपत्तिषु। उपपत्तिः प्राप्तिः, तत्र नित्यं समचित्तत्वं हर्षनिषादयोरभावः ॥ १३.१० ॥
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १३.११ ॥
अनन्ययोगेन रमाब्रह्मादिस्वातंत्र्यासम्बन्धेन, तदविषयिणीति यावत् । अत एवाव्यभिचारिणी मयि भक्तिः। विविक्तदेशसेवित्वं जनसम्मर्दहीनशुद्ध स्थानस्थितिः ॥ १३.११ ॥
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ १३.१२ ॥
अध्यात्मज्ञाननित्यत्वं आत्मान (परमात्मान) मधिकृत्य स्थिते
ग्रसिष्णु प्रलये सर्वभक्षकम् । प्रभविष्णु सृष्टिकाले सर्वोत्पादकं च ॥ १३.१७ ॥
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १३.१८ ॥
किञ्च तद्ब्रह्म ज्योतिषां सूर्यादीनामपि ज्योतिः प्रकाशशक्तिप्रदम् । तमसः अव्यक्तान्मृत्योः अज्ञानाद्वा परमतिक्रांत उच्यते । 'तमसः परस्तात्' इति श्रुत्यादावित्यर्थः । ज्ञानं प्रकाशस्वरूपम् । ज्ञेयं स्वेन ज्ञातव्यरूपं स्वप्रकाशमित्यर्थः। जीवानां स्वप्रकाशत्वेऽपि तस्येशाधीनत्वात् । अस्य चान्यानपेक्षत्वात् । स्वकर्मकत्वस्य (क्रियात्वकर्मत्वयोरेकत्र विरोधेन) दुर्घटत्वाच्च तदुक्तिर्भगवतो महिमेति यत्प्रभाव इत्यस्योत्तरं भवतीति भावः । ज्ञानगम्यमपरोक्षज्ञानेन मुक्ती प्राप्यम् । सर्वस्य हृदि विष्ठितं विशेषेण स्थितम्। सर्वगतत्वेन दूरस्थमंतिके च तत्सर्वमावृत्य तिष्ठतीत्युक्तावपि हृदद्यल्पदेशे स्थित्युक्तिर्युक्ता । 'ॐ अर्भकोकस्त्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॐ' इति (१.२.७) 'ॐ अन्यभावव्यावृत्तेश्च ॐ' (१.३.१२) इत्यादिसूत्रेणाणुरूपेणावस्थितेरुक्तत्वात् । अत एव चरमित्युक्तिरप्युपपन्नेति भावः ॥ १३.१८ ॥
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १३.१९ ॥
उक्तमुपसंहृत्य तज्ज्ञानं स्तौति ॥ इति क्षेत्रमिति । महाभूतानीत्यादिना क्षेत्रम् । इच्छेत्यादिना तद्विकाराश्चेत्यपि ग्राह्यम् । ज्ञानशब्दोऽत्र ज्ञप्तितत्साधनोभयपरः। 'अमानित्वं इत्यादिना ज्ञानसाधनस्य 'तत्त्वज्ञानार्थदर्शनं' इत्यत्र भगवदपरोक्षज्ञप्तेश्चोक्तत्वात् । 'ज्ञेयं यत्तत्' इत्यादिना ज्ञेयं चोक्तं समासतः सङ्क्षेपेण । मद्भावाय मयि स्थितये उपपद्यते योग्यो भवति। यद्यप्यत्र ज्ञेये ब्रह्मणि प्रतिपादिते केन साधनेनेदं बुद्धयारूढं भवेदित्याकाङ्क्षायां 'ज्ञेयमित्यादिकं' पूर्वमुक्त्वा 'अमानित्वं' इत्यादिकं तज्ज्ञानसाधनं पश्चाद्वाच्यम् । तथाऽपि साधनस्येच्छादिरुपश्क्षेत्रविकारेष्वंतर्भाव-ज्ञापनार्थत्वात् । यत्प्रभावपदोक्तप्रेरकत्वस्यालौकिकप्रमेयस्य बुद्धयारोहे साधनानामप्युपयोगाच्च साधनानंतरमेव यत्प्रभावश्चेत्यस्य वाच्यत्वात् तत्प्रसङ्गेन ज्ञेयस्यापि पश्चादेवोक्तिः । नन्वधाऽपि उद्देशक्रमानुसारेण 'यतश्च यदि त्येतत्प्रथममुक्त्वा स च यो यत्प्रभावश्चेत्येतत्-पश्वाद्वक्तव्यमित्येतदप्यनेनैव निरस्तम् । विकारांतभर्भावज्ञापानाय
प्रकृतिविकारसुखदुःखानां स्वीयतया साक्षात्काररूपे भोगे पुरुषो भगवान् हेतुरुच्यते । अत्र हरेः सर्वहेतुत्वेन जीवगतदेहेन्द्रियकर्तृत्वहेतुत्वसत्वेऽपि, तथा देव्याः जीवानां सुखदुःखभोगदानहेतुत्वसत्वेऽपि, देव्याः देव्याः सुखदुःखभोगदाने प्रवृत्तिरल्पा । कार्यकारणकर्तृत्वे भोगदानप्रवृत्त्यपेक्षयाऽधिका । अतः कार्यकारणकर्तृत्वे प्रकृतिर्हेतुरिति । पुरुषस्तु सुखदुःखभोगदानहेतुरिति विशिष्योक्तिर्युक्ता । अत एव पूर्वापरार्धयोरुच्यत इति द्विवारमुक्तिः । यद्वा कार्यकारणकर्तृत्वे देहेन्द्रियाणां परिणामक्रियायां प्रकृतिः प्रधानं हेतुरुच्यते । पुरुषो जीवः सुखदुःखानां भोक्तृत्वे अनुभवे हेतुः कर्तोच्यते इत्यर्थः ॥ १३.२१॥
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ ॥ १३.२२ ॥
ननु प्रकृतिकृतदेहेन्द्रियसम्बन्धेन सुखदुःखादिभोक्ता जीवस्तन्नियामिके देवदेव्याविति यत्तदयुक्तम् । देहादिसम्बन्धादेर्मिध्यात्वादित्यत आह ॥ पुरुष इति। पुरुषो जीवः प्रकृतिस्थः प्रकृतिकार्यदेहादी स्थितः प्रकृतिजान् गुणान्सुखादीन् भुङ्क्ते । हीति निर्वाधानुभवसिद्धत्वं सूच्यति । तेन तद्विरोधान्न मिध्यात्वं सुखादेरित्युक्त भवति । एतेन 'कार्यकारणकर्तृत्व' इत्यत्र जीवदेहस्थत्वस्य, भोकृत्वे सुखदुःखानां इत्यत्र सुखादिभोगस्योक्तेस्ताभ्यामस्य पौनरुक्त्यमिति निरस्तम् । मिध्यात्वनिरासाय साक्ष्यनुभवविरोधं मिथ्यावादिनां दर्शयितुं प्रागुक्तस्यैवात्र पुनरभिधानात् । शुद्धस्य जीवस्य प्रकृतिस्थत्वे किं कारणमित्यत आह ॥ कारणमिति । अस्य जीवस्य ॥ १३.२२ ॥
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ १३.२३ ॥
साध्वसाधुयोन्युत्पत्तौ सत्त्वादिगुणसङ्गो निमित्तमात्रकारणम् । भगवानेव तु स्वतंत्रकारणमित्याह ॥ उपद्रष्टेति । अनुमंता पुनः पुनः कर्तव्यस्य विशेषेणालोचकः । यद्वा अनु स्वानुकूल्येन स्वमनोऽविक्षेपकतयेति यावत् । मंता (मत्याः) मतिपूर्व इति यावत् । प्रेरयतीत्यनुमंता । तत्र हेतुरुपद्रष्टेति । सर्वेभ्य पुअरि वर्तमानः । उत्तमः सन्निति यावत् । द्रष्टा, भर्ता सर्व (धारकः) भारकः सर्वपोषकं इति यावत्। भोक्ता सर्वकर्मफलसारभुक् । महाशक्तित्वान्महेश्वरः। परमात्मा परमचेतनः। इतिशब्दो हेत्वर्थः सन्सर्वत्रान्वीयमानः अनुमंतृत्वे उपद्रष्टृत्वाङ्गर्तृत्वादित्यादिरूपेण हेत्वर्थको ध्येयः ।
उपद्रष्टवत्वादिहेतुभ्योऽनुमंता पुरुष उक्त इति । चशब्दो हेतुसमुच्चये । कोऽनुमंता पुरुष इत्यतः अस्मिन्देहेऽप्युक्त इति उक्तम् । देहस्थत्वेनोक्तश्च भगवान्स्वयमेव, क्षेत्रज्ञ चापि मां विद्धि सर्वक्षेत्रेषु' इति स्वस्य देहस्थत्वेन प्रागुक्तत्वादिति भावः । एतेन यतश्च यदित्यनेन यादृग्धर्मविशिष्टाद्यत्क्षेत्र प्रवर्तते एतन्मे शृण्विति प्राक् प्रतिज्ञातमप्युक्तं भवति । उपद्रष्टत्वादिधर्मविशिष्टात्प्रवर्तत इति ॥ १३.२३॥
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ १३.२४ ॥
'प्रकृतिं पुरुषं चैव विद्धि' इत्युक्तार्थे बुभुत्साऽतिशयोत्पादनाय तज्ज्ञानफलमाह ॥ य एनमिति। योऽधिकारी एनं पुरुषं जीवपराख्य द्विविधपुरुषं जडाजडाख्यद्विविधप्रकृति च तत्तद्गुणैः सह वेत्ति परोक्षतो विदित्वाऽपरोक्षतो जानाति स पुमान्सर्वथा वर्तमानोऽपि प्रमादादन्यायप्रवृत्तिमानपि भूयः पुनर्नाभिजायते मुक्तो भवतीत्यर्थः । तदुक्तं सूत्रे । ॐ कामकारेण बैंक ॐ (३.४.१५) इति ॥ १३.२४ ॥
ध्यानेनाऽत्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ १३.२५ ॥
परमपुरुषादिदर्शने साधनमाह ॥ ध्यानेनेति । केचिच्छ्रवणमननोपेताः ध्यानेनात्मना बुद्ध्याऽऽत्मानं भगवंतं आत्मनि देहे पश्यंति। अन्ये साङ्ख्येन योगेन वेदोक्तभगवत्स्वरूपपरोक्षज्ञानेन ध्यानेन चेत्यनुषज्यते । आत्मानं पश्यंति । अपरे श्रवणादिहीनाः कर्मयोगेन च कर्मरूपोपायेन साङ्ख्येन ध्यानेन चेत्यनुषज्यते । साधुकर्मानुष्ठानलब्धभगवत्प्रसादजन्यश्रवणमननध्यानैरात्मानं पश्यति । ध्याने अशक्तानां साङ्ङ्ग्यसंपादनेन । तत्राप्यशक्तानां कर्मोपायेन श्रवणादिसंपादनेनात्मदर्शनमित्यवस्थाभेदमाश्रित्यायमर्थों भाष्योक्तः । तात्पर्ये तु केचिदृषयः स्वप्रतिभयाऽन्यतः श्रवणेन च हरिं ज्ञात्वा आत्मना मनसा आत्मनि हृदये आत्मानं परमात्मानं ध्यानेन पश्यंति। साक्षात्कुर्वति । केचिदित्युक्त्याऽन्ये नारदाद्याः ऋषयस्तु बहिरपि पश्यंति इति सूचितम् । केचिदृषयो नारदाद्या बहिस्त्वपि इति स्मृतेः । 'ऋषयोऽतःप्रकाशा' इति सूत्रभाष्योक्तश्रुतिस्तु नारदाद्यन्यविषयेति ज्ञातव्यम् । अन्ये देवास्तु साङ्ख्येन योगेन स्वप्रतिभाख्यज्ञानरूपोपायेन ध्यानेन विनेव
इच्छाद्युक्यनंतर अममानित्वादेः ज्ञानसाधनस्योपोद्घातप्रक्रियया पूर्वमेव वाच्यत्वेन तदनंतरमेवोक्तिदिशा 'सच यो यत्प्रभावश्चे त्युक्तस्य वाच्यत्वात् । बहुत्वाच्च 'सच यो यत्प्रभावश्चे त्येतदुक्त्यपेक्षया यतश्च यदित्ये 'तदुक्तेरल्पत्वात् तत्सर्वोक्त्यनंतरं पश्चात् यतश्च यदि त्यस्योक्तिः ॥ १३.१९ ॥
प्रकृतिं पुरुषं चैव विध्यनादी उभावपि । विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥ १३.२०॥
एवमुक्तदिशा यतश्च यदिति प्रतिज्ञातप्रेरकस्वरूपस्य प्रभावोक्त्यनंतर वाच्यत्वसिद्धी प्रेरकज्ञानस्य प्रेर्यज्ञानसापेक्षत्वात्प्रेरणीयं सप्रकारं पुरुषादिरूपं क्षेत्रं तावदाह ॥ प्रकृतिमिति । न चैतत् एतत् क्षेत्रमिति' श्लोके न प्रतिज्ञातमिति शङ्क्यम् । 'यादृक्चे त्यनेन प्रतिज्ञातत्वात् । तर्हि महाभूतानीत्याद्युक्त्यवसरे प्रागेव वाच्यमिति न शङ्क्यम् । यादृक्चेत्यनेन प्रतिज्ञातत्वात् । तहिं महाभूतानीत्याद्युक्त्यवसरे प्रागेव वाच्यमिति न शङ्क्यम् । वक्ष्यमाणप्रेरकस्वरूपोक्त्युप-योगितयाऽपेक्षितप्रेर्यस्वरूपस्यात्रावश्यं वाच्यत्वात्प्रागप्युक्तो गौरवापत्तेरिति भावः। एवं च प्रकृतिपदेन महाभूतानि इत्यादिना प्रागुक्तपञ्चविंशतितत्त्वानि गृह्यते, विकार शब्देन च प्रागुक्तेच्चादयः सर्वे प्रकृतिविकाराः गुणत्रयस्याल्पविवक्षया पृथगुपादानम् । पुरुषोऽत्रजीवः । प्रकृतिं पञ्चविंशतितत्त्वानि पुरुषं जीवं च उभावप्यनादी विद्धि । तथा प्रकृतिसम्भवा-न्प्रधानोपादानकानिच्छादिविकारान्सत्त्वादिगुणांश्च विद्धीत्यर्थः । तथा चेश्वरातिरिक्तः सर्वोऽपि चेतनाचेतनवर्गः प्रेयंप्रपञ्च्चोऽत्रोक्तो भवति । यद्वा प्रकृतिं चिदचित्प्रकृती पुरुषं जीवं परमात्मानं च उभी उभे चेत्यपि सङ्गह्यते अनादी विद्धीत्यर्थः । विकारानिच्छादीन्सत्त्वादिगुणांश्च प्रकृतिसम्भवान प्रकृत्युपादानकान्विद्धि ।। । गुणानां विकारत्वेऽपीच्छाद्यपेक्षयाऽर विकारत्वादिच्छादीनामधिकविकारत्वविवक्षया पृथगुक्ताः ज्ञेयाः । तात्पर्ये तु प्रकृतिपदेन चिदचित्प्रकृत्योः पुरुषपदेन जीवेश्वरयोर्ग्रहणायोभावित्युक्तिरित्युक्तम् ॥ १३.२०॥
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ १३.२१ ॥
प्रकृतिसम्भवत्वं विकाराणां व्यनक्ति ॥ कार्येति । कार्य शरीरम् । कारणानीन्द्रियाणि । जीवस्य यद्देहेन्द्रियकर्तृत्वं तत्र कारणं चित्प्रकृतिरुच्यते । सुखदुःखानां भोकृत्वे जीवस्य
किमुक्तं भवति विष्णुनाऽन्योन्यं च पृथग्भूतं भूतग्राममेकविष्ण्वाश्रितं यदानुपश्यतीत्युक्तं भवति । तत एव विष्णुत एव विस्तारमुत्पत्तिं च भूतानामित्यन्वेति । अनुतारतम्येन पश्यति । तदा ब्रह्म संपद्यते प्राप्नोति ॥ १३.३१ ॥
अनादित्वान्निर्गुणत्वात्परमात्माऽयमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ १३.३२ ॥
ननु सर्वभूतेषु तिष्ठतो न विनाश इत्ययुक्तम् । शरीरसंबन्धे व्ययादेरावश्यकत्वादित्यतो हेतूक्तिपूर्व व्ययलेपाद्यभावमाह ॥ अनादित्वादिति । शरीरस्थोऽप्ययं परमात्मा अनादित्वान्निर्गुणत्वात्सत्त्वादिगुणहीनत्वाच्चाव्ययः । नाशादिव्ययहीनः । चिंतासंतापदुःखादिना न लिप्यते न संबध्यते । लौकिकक्रियविलक्षणक्रियावत्त्वान्नकरोति च। अनादित्वहेतोर्भावत्वे सतीति विशेषणान्न प्रागभावे व्यभिचारः शङ्काः । यद्वा 'सर्व खल्विदं ब्रह्म' (छा. ३.१४.१) पुरुष एवेदं सर्व' (मुं. २.१.१०) इत्यादिना विष्णोः सर्वचिदचिदात्मकत्वप्रतीतेर्वाद्यंतरैस्तथोक्तेश्च कथं भूतानां विष्णोः पृथग्भाव इत्यतः श्रुतितात्पर्यापरिज्ञानादिप्राप्तमद्भूत सहेतुकं निराह ॥ अनादित्वादिति । अयं परमात्मा शरीरस्थोऽपि शरीराभिमानितया तत्स्थसुखदुःखादिभोक्तृतया शरीरस्थोऽत्र जीवोऽभिमतः । शरीरस्थोऽपि न भवति । जीवात्मकोऽपि न भवति । किमु वाच्यं जडात्मको न भवतीति अपेरर्थः । कुतः अनादित्वात् । देहयोगनिमित्तादिमत्त्वहीनत्वादिति यावत् । सत्त्वादिगुणहीनत्वाद्देह-व्ययनिमित्तव्ययहीननत्वात्। करोति, सर्वकर्तृत्वान्न लिप्यते सर्वकरणनिमित्तफलाभोकृत्वाच्च । जीवस्य चोक्तहेतुपञ्चक-विपर्ययवत्त्वादिति भावः। ईश्वरः करोति न लिप्यते । जीवस्तु 'परात्तु तच्छ्रुतेरिति' (२.३.४१) सूत्रोक्तदिशा कर्तृशक्तेरपीशाधीनतया स्वातंत्र्याभावान्न करोति । पराधीनकर्तृतया लिप्यते चेति योजना ॥ १३.३२ ॥
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते ॥ १३.३३ ॥
परमात्मनो लेपाभावं दृष्टांतेनोपपादयति ॥ यथेति । पङ्कादिसर्वगतमप्याकाशं सीक्ष्म्यादप्रतिघत्वान्नोपलिप्यते यथा तथा सर्वत्र नीचोच्चादिदेहे स्थितोऽप्यात्मा परमात्मा नोपलिप्यते ॥ १३.३३ ॥
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्र्न प्रकाशयति भारत ॥ १३.३४ ॥
यत्क्षेत्रज्ञत्वविशिष्टतया भगवज्ज्ञानार्थ क्षेत्रादिकमुक्तम् ।
तत्क्षेत्रज्ञत्वं दृष्टांतेन व्यनक्ति ॥ यथेति । यथैको रविः इमं लोकं कृत्स्नं प्रकाशयति । तथैकः क्षेत्री क्षेत्रस्थः परमात्मा कृत्स्रं क्षेत्रं चेतनाचेतनरूपं प्रकाशयति ॥ १३.३४ ॥
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ १३.३५ ॥
फलोक्त्याऽध्यायार्थमुपसंहरति ॥ क्षेत्रेति । क्षेत्रक्षेत्रज्ञयोरेवमुक्त प्रकारेणांतरं भेदं ज्ञानचक्षुषा विवेकदृष्ट्या ये विदुः । तथा भूतेभ्यः प्रकृतेश्व जीवानां मोक्षो येनेति वा । भूतानां जीवानां अचेतनप्रकृतेः सकाशान्मोक्षो येनेति वा । तदभिमानित्वादिकं प्रागुक्तमोक्षसाधनं च ये विदुः ते ब्रह्म यांतीति ॥ १३.३५ ॥
इति श्रीमद्गीतार्थसड्यहे श्रीराघवेन्द्रयतिकृते
त्रयोदशोऽध्यायः
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ १३.२९ ॥
साम्यादिज्ञानस्य फलमाह ॥ सममिति । सर्वत्र समवस्थितं निदर्दोषाशेषसद्गुणतया सम्यगवस्थितं ईश्वरं समं सर्वत्र निर्दोषाशेषसद्गुणतयैकप्रकारम् । ॐ न स्थानतोऽपि परस्योभयलिङ्ग सर्वत्र हि ॐ' (२.३.११) इति सूत्रोक्तदिशा पश्यन् । आत्मना बुद्धया आत्मानं स्वात्मानं च न हिनस्ति । नरके न पातयति । ततो ज्ञानात्परां गतिं मुक्तिं च यातीत्यर्थः ॥ १३.२९ ॥
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथाऽऽत्मानमकर्तारं स पश्यति ॥ १३.३० ॥
नन्वीश्वरः कर्मानपेक्षयैव 'उपद्रष्टा इत्यत्रोक्तदिशा यदि सदसद्योनिजन्मसु स्वतंत्रकारणं, तर्हि तस्य वैषम्यादिदोषः स्यात् । कमपिक्षितायां स्वातंत्रयप्रच्युतिस्तस्य स्यात् । तस्यापि कर्जतरसत्त्वाच्च स्वातंत्रयहानिरेवेत्यत आह ॥ प्रकृत्येति । ल्यवंतमेतत् । चशब्दात्पूर्वप्रकृतेश्वरोऽनुषज्यते । ईश्वरेणैव प्रकृत्यपूर्वतनं जीवकर्म उद्बोध्य तदनुसूत्य क्रियमाणानि सर्वकर्माणि यः पश्यति । तथाऽऽत्मानं परमात्मानं अकर्तारं कर्तृहीनं यः पश्यति स पश्यति परमेश्वरमित्यर्थः । यद्वा 'उपद्रष्टा इत्यत्रोक्तभगवत्स्वातंत्र्यज्ञानस्य फलमाह ॥ प्रकृत्येति । तृतीयांतमिदम् । च शब्दात्प्रकृतेश्वरेण कर्चा प्रकृत्या निमित्तभूतया क्रियमाणानि सर्वशः कर्माणि यः पश्यति । तथा स्वात्मानं चाकर्तारं अस्वतंत्रं च यः पश्यति स पश्यति हरिमित्यर्थः । तथा च सूत्रं ॐ पूर्व तु बादरायणो हेतुव्यपदेशात् ॐ' (२.३.४२) इति । कर्तृाहित्यात्स्वातंत्र्यम् । स्वाधीनसत्ताकतत्तदीयपूर्वकमपिक्ष्य सर्वं करोतीति न वैषम्यादिदोष इति भावः । तदुक्तं ॐ वैषम्यनेघूंण्ये ॐ न सापेक्षत्वात्तथा हि दर्शयति (२.१.३५) इति ॥ १३.३०॥
यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एवं च विस्तारं ब्रह्म संपदद्यते तदा ॥ १३.३१ ॥
न केवलं भगवतः सर्वप्रेरकत्वादिज्ञानमात्रेणालम् । किंतु तस्य 'ॐ अवस्थितेरिति काशकृत्स्नः ॐ' (१.४.२३) इति सूत्रोक्तदिशा सर्वाधारत्वाद्यपि ज्ञातव्यमित्युच्यते ॥ यदेति । भूतपृथग्भावं भूतानां जीवानां पृथक्त्वं भेदं एकस्थमेकस्मिन्विष्णी स्थितम् ।
विष्णुप्रसादलब्धस्वप्रतिभाख्यज्ञानेन बहिरंतश्च विष्णु पश्यंतीत्यर्थः । अपरे क्षत्रियवरा राजानः कर्मयोगेनाश्वमेधादिकर्मरूपोपायेन श्रवणेन स्वप्रतिभया च नित्यं भगवंतं स्मरंतोऽश्वमेधादियज्ञकर्मकाले यज्ञभागार्थमागतमात्मानं पश्यंतीत्यर्थः । श्रवणप्रतिभयोरल्पत्वादत्रानुक्तिः ॥ १३.२५ ॥
अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ १३.२६ ॥
अन्ये तु मनुष्यास्तु एवं स्वप्रतिभाबलेनात्मानमजानंतः अन्येभ्यः श्रुत्वा मत्वेत्यपि ग्राह्यम्। उपासते ध्यायंति । ततः पश्यंति च । तेऽपि च अल्पतरप्रतिभावंतोऽपि श्रुतिपरायणाः बहुश्रवणवंतः संतः मृत्यु संसारं अतितरंत्येवेत्यर्थः ॥ १३.२६ ॥
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् । क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ १३.२७ ॥
कार्योपादानत्वप्रकृत्युपादानकदेहयोगित्वसर्वत्रसमत्वरूपधर्मयुक्ततया प्रकृतिपुरुषेश्वरस्वरूपं पुनरप्याह ॥ यावदिति । न चाप्रतिज्ञातोक्तिदोषः प्रकृतिपुरुषधर्मक्तिः यादृक्च' इत्यत्रेश्वरधर्मक्तिश्च यत्प्रभाव इत्यत्र प्रतिज्ञातेऽतर्भावात । यावत्स्थावरजङ्गमात्मकं सत्त्वं जीवजातं तत्क्षेत्रक्षेत्रज्ञसंयोगात् । चित्प्रकृतिपरमात्मनोः संयोगाज्जायते प्रादुर्भवतीति विद्धि । यद्वा 'उपद्रष्टा इत्यादिना सदसद्योनिजन्मसु भगवानेव स्वतंत्रकारणमिति यदुक्तं तत्प्रपञ्चयति ॥ यावदिति। उक्त एवार्थः ॥ १३.२७ ॥
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ १३.२८ ॥
'क्षेत्रज्ञ चापि मां विद्धि सर्वक्षेत्रेषु' इति हरेः सर्वशरीरस्थत्वं यदुक्तं तदयुक्तम् । तथात्वेऽधिष्ठानतारतम्यात्तारतम्यं, दुःखिसहावस्थानाद्दुःखं च स्यादित्यत आह ॥ सममिति । सर्वेषु तारतम्योपेतेषु प्राणिषु तिष्ठतं परमेश्वरं अचिंत्यशक्तिकं हरिं समं न्यूनाधिकहीने सर्वत्राशेषसद्गुणोपेतं, एवं यः पश्यति । विनश्यत्सु सुखदुःखजनिमृत्यादिदोषवत्सु भूतेषु भूतेषु तिष्ठतं । अविनश्यंतं दुःखादिदोषहीनं यः पश्यति स पश्यति । स एव यथार्थ ज्ञानवानित्यर्थः ॥ १३.२८ ॥