Sarga 16

अथ षोडशः सर्गः


साधुभ्यो मधुमथनाङ्घ्रि-भक्ति-भाग्भ्यः 

श्रौतेभ्यो वितत-मतेर्म्महानु-भावम् । 

वेदान्तं स्वयमिव बन्ध - मोक्ष- मूलं

व्याचष्ट स्फुटमथ कोऽपि कोविदोऽत्र

॥ १॥


गोमत्यास्तट-निकटेऽच्छ- कीर्त्ति चन्द्रं

विश्व - ज्ञं क्षिति - पतिरन्त्य - वर्णजन्मा | 

विद्वेष्टा श्रुति-गुण-साधकं श्रुतीनां

वाचालो वचनमुवाच वाग्मि-वर्य्यम् ॥ २ ॥


उन्मत्त- प्रलपितवन्न तद्धि मानं

यद् वाक्यं व्यभिचरति क्वचित् फलेऽत्र ।

दृष्टान्तो भवति तदप्रमाणतायां

सर्वेषां श्रुति-वचसां च सर्वत


वेदोक्तं फलमलमाप्यतेऽधिकाराद

इत्युक्तो ऽतनु- मनसाऽभ्यधत्त धूर्त्तः । 

योग्यत्वे सति न हि दृश्यतेऽधिकारी

नातः स्यात् स खर-विषाणवत् सदेति ॥ ४॥


आक्षेपं तमसहमान उच्च-मानः 

सद्योऽसौ निज-कर-पल्लव- द्वयेन । 

आदाय व्यतनुत बीजमोषधीनां 

सूक्तेनाङ्कुर-दल-पुष्प-बीज - सृष्टिम्


व्याख्याता निशि स कदाचन प्रदीपे 

सं-शान्ते पुनरपि वाचयाम्बभूव । 

शिष्यान् स्वान् पुरु-करुणाम्बुधिर्निजाने- 

रङ्गुष्ठ-स्फुट-नखरान्तरोचिषैव


तीर्थार्थं पृथु तर वप्र- पाति-वारां

धाराणां रय-सहन-क्षमां महेक्षः ।

आनीतां दश शत- पुम्भिरत्यशक्त्या

प्रेक्ष्योचे विपुल - शिलां क्वचित् स मुक्ताम् ॥ ७ ॥


लोकानामुप-कृतये कुतः शिलेयं

निन्ये नो इति जनता जगाद तत्र । 

नेतारो यति-वर मानवा न हीमां 

भीमश्चेदिह यतते नयेन वेति


निन्ये तां गिरिमिव वानरी - कृतात्मा 

लीलावत् कर-कमलेन सोऽमलेन । 

तत्रापि न्यधित तयाऽस्य सूच्यतेऽलं 

तत् तुङ्गां ननु निकषाऽधुनाऽपि कर्म्म


सङ्घातैरधिक-घनैरलङ्कृताध्वा 

शिष्याणां यत - मनसामुतेतरेषाम् । 

यत्रामा वसति तिथाविनेन चन्द्र-

स्तत्रासौ सकल-मतिः ससार सिन्धुम् ॥ १० ॥


आर्द्राङ्गाः सपदि निमज्जनात् सरस्यां

कण्वस्य द्विज-वृषभस्य वल्लभायाम् ।

तत्राऽयन् खर-किरणोप-राग- हेतो-

ग्रमीणा अपि सकलाः स - बाल - वृद्धाः ॥ ११॥


सर्वज्ञं स - परिजनं समीक्षमाणाः

फुल्लाक्षाः स्मित-वदनाः शुभा ननन्दुः ।

दौर्मुख्यं दधत उतापरे निनिन्दु-

र्नाऽश्चर्य्यं द्वयमपि तत् स्वभाव-तन्त्रम् ॥ १२ ॥


मामैनं भुवन-गुरुं विनिन्दतेत्थं 

निर्भत्स्याभ्यपतदिवोत्त-रङ्ग-हस्तः । 

सङ्क्षोभी घन-घन-घोष - घोर-वेषः 

संरम्भी खल-दमनाय सिन्धु-राजः


सम्मोदात् तरळ-तरो द्रुताभिगामी 

गम्भीर-स्वन-नुतिमान् सु- फेन-हासः । 

वीच्यङ्गैरधिक-तरैरिहाधिवेलं

मध्वाय प्रणतिमिव व्यधात् समुद्रः


गो-लीलास्वतिशयिनावगाध-भावा- 

नोल्लङ्घयौ विविध-गुण- प्रकाश-रत्नौ । 

मध्वाब्धी परम-मते: प्रियं जनानां 

लावण्यं न तु जलधेरयं विशेष:


अम्भोधेस्त्वरित-तरोमि -पाणि- मृष्टे 

स्वच्छेऽसौ विकट-तटासने निषण्णः । 

व्याचख्यावति-चिरमैतरेय-शाखा-

सूक्तानि प्रभुरति-सुन्दर-प्रकारम्


गाम्भीर्य्यात् स्वनमधरी - करोति सिन्धोः 

श्राव्यत्वं वहति तथाऽप्यहो स्वनोऽस्य । 

पूर्णेन्दु-प्रभ- वदनः क एष धन्यो मत्वेत्थं 

जन-जलधिस्तमाशु पर्यैत्


वेदानां समुचित भाव-वाद- दक्षं 

ये वेद - द्विषमिममूचिरे महेयः ।

धिग्-धिक् तानिति जनता जगाद तत्र

स्वाश्चर्यात् किल कलिताञ्जलिर्नमन्ती ॥ १८ ॥


सन्नामं विपुल - हृदे विधाय भक्त्या 

बिभ्राणाश्चरणरजः सुरेन्द्र- सेव्यम् । 

तत्-स्नानादधिक- शुचौ नदाधि - राजे 

सनुस्ते द्विज - निकरा: प्रशस्त - काले


कल्लोलैः करि-निकरैरिवानिवाय्यै- 

रुल्लोलैर्जन-निकरान् निपातयद्भिः । 

आ-क्रान्ताः प्रबलतरैश्च लोठ्यमाना 

हास्यत्वं प्रययुरुदन्वतीह नैके


मज्जन्तं पृथु-लहरी-निगूढ - मूर्त्तिं 

सम्पूर्ण प्रमतिमसज्जनो जहास ।

यो लोक त्रय - विजयी गुरु: प्रसिद्धः 

सोऽयं ही पतति लघूर्म्मि- लीलयेति


नीचानामवच - वचांस्यजीगणन्नो 

दभ्राणां क्षुभित-कराण्यदभ्र-बोधः । 

क्रोष्टूनां श्व-कळ कळ-प्रदं विरावं 

पञ्चास्यो न हि गणयेद्दार-वीर्य्यः

-

जन्मस्थित्यवसिति - दायिनं कटाक्षं 

लोकानामघटयदम्बुधौ बृहद्-धीः । 

आक्रान्तोऽधिक- गुरुणा स तेन ताव-

न्मुञ्चन् सञ्चलनमभूत् तटाक -देश्यः


इत्याद्यैरपि चरितैरनन्य-साद्ध्यै- 

न स्थेष्ठां बहु-मतिमाप दुर्जनोऽस्मिन् । 

विद्वेषं व्यधित पुनर्निरस्त - भाग्ये

तस्मिन् दुर्म्मनसि तदेव शोभनं स्यात् ॥ २४ ॥


सम्प्राप्तं सह सह-जेन गण्ड - वाटं

स्वोजस्सम्प्रकटन आदिशद् विशङ्कम् । 

शुश्रूषामयमुचितो विधातुमीष-

लोकानामिति वचसा परीक्षकाणाम् ॥ २५ ॥


श्रीकान्तेश्वर-सदनेऽनयत् किलैको 

यस्त्रिंशन्नर-वर-नीत-केतु-यष्टम् ।

आहत्या गुरु-गदयैव नाळिकेराद्

यो लेभे तरळ-तरात् फलानि कामम् ॥ २६ ॥


एतादृग्-बल-विभवः स तस्य कण्ठं

तज्ज्येष्ठोऽप्यभित उभौ समं गृहीत्वा ।

निष्पेष्टुं परममवापतुः प्रयत्नं

सङ्घर्षात् क्रम-परि-वर्द्धमान- तैक्ष्ण्यम् 11 20 11


आस्विन्नावलस - तरौ गुरोर्नियोगा-

च्छत्राग्र्यानिल-महितौ च तावुभाभ्याम् । 

मुक्त्वाऽयः कठिन-तर- त्वचं शिरोधिं 

पर्य्यायस्फुट-वचनां निपेततुः कौ


आश्वस्तौ शुचि हृदिमावनून - माना- 

वुद्धर्तुं समगददङ्गुलिं धरास्थाम् । 

सङ्गृह्य प्रसभ-रसादपि प्रयत्तौ

सामर्थ्यं ययतुरिमौ न कम्पने ऽस्याः ॥ २९ ॥


निर्य्यत्नं वटुमधिरुह्य मन्द - हासी 

स प्रायादिह परितो नृसिंह- गेहम् । 

ऐश्वर्यैरिति लघिमादिकैरुपेतो 

मध्वोऽभूत् त्रिभुवन चित्र - रत्न - राजः


पञ्चाशन्नर-प-नरोपनीत-मात्रां 

यो वार्क्षी गृहमधि-रोहिणीं निनाय । 

स व्याख्यास्वर-दमनाय पूर्व - वाटो 

निर्देशाद् व्यधित गुरोर्गळ-प्रपेषम्


स्विन्नेऽस्मिन्नपि यतमान आग्रहोग्रे

प्राच्यात् तत्-प्रवचन-निस्वनोऽति-रेजे । 

उद्धर्तुं विपुल-हृदङ्गुलीं च नालं

सोऽभूदित्यजनि कुतूहलं जनानाम् ॥ ३२ ॥


पर्यैक्षि प्रभुरितरैः शिवाग्नि- पूर्वै- 

र्नोपैक्षि प्रबलतरैस्तथा प्रयत्नैः । 

नावैक्षि कचिदपि शक्त्यपूर्त्तिरस्मि- 

नुत्प्रेक्षि स्वयमपि भीम इत्यवश्यम्


लेखिन्यां मुहुरपि-नह्य कृष्यमाणं 

नाप्येकं तनु - रुहमस्य तूदपाटि । 

नासाग्रे मृदुनि कृतैश्च मुष्टि- घातै- 

नस्येन्दोरति-बलिभिः प्रसन्नताऽऽसि ॥ ३४ ॥


पञ्चास्यः श्वभिरिव ही विहीन - सारै- 

रम्भोधिर्न्नग-सरितां जलैरिवाल्पैः । 

खयोतैरिव तरणिर्विडम्बयन् नृन् 

प्रत्यर्थि- स्व- सम- नरैर्व्यवाहरत् सः


पारन्ती - सुर- सदनं विशाल - संवित्

सम्प्राप्तः खलु सुचिरान्निवेद्य - हीनम् ।

ग्राम्याय- क्षिति-पतिभिर्द्दिनार्द्ध-मात्रात्

तद्भूतर्व्यधित स भूत-बल्यनल्पाः


भीमत्वे सह सहजैः प्रतिष्ठितः प्राक् 

पञ्चात्मा मुर-रिपु-रञ्चितो यदत्र ।

पाञ्चाल्या बलि-सलिलं समं ददत्या

सोऽस्मार्षीत् तमिममथ प्रपूज्य-पूज्यः ॥ ३७ ॥


आयास्यन् किल सरिदन्तराख्य-देशं 

ग्रीष्मे निर्जलमिह शुश्रुवांस्तटाकम् । 

तत्-काले परमभि-वर्षयन् घनौघं 

तत्पूर्त्यै व्यधित कुतूहलं जनानाम् 


दुर्म्मन्त्रैः खल-पटलैः प्र-चोद्यमानो 

ग्रामेशो वृषळ - पतिः प्रहर्त्तुमेनम् । 

सम्प्राप्तस्तत उत यान्तमीक्षमाणः 

प्रोद्यन्तं रविमिव विस्मितो ननाम


क्षेत्राग्र्यं त्रिभुवन - वैद्य - नाथ-नाथं 

प्रस्थाय प्रचुर - तरान्तर: प्रभावी । 

श्री-कृष्णामृत-परमाणवाभिधानां 

चक्रे सद्वचन - ततिं स्व-भक्त-भूत्यै


स ग्रामं परमपि यात उच्च - भूतिं 

विद्वांसः क कुहर-कूप-दर्दुराभाः । 

इत्यूचे मदमतिमानिनोऽखिलज्ञ- 

म्मन्यस्य क्षपयितुमेव तज्जनस्य


सर्वज्ञोऽप्ययमधिकं न यज्ञ - भङ्गीं

संवित्ते यतिरिति बद्ध-निश्चयोऽसौ । 

आभान्तं परिषदि मत्सरादपृच्छत् 

कर्म्मार्थ-श्रुति-गहनार्थ-खण्ड-भावम् ॥ ४२ ॥


छन्दोभ्यश्र्युत-रस-सङ्ग्रह-प्रवीणान् 

षष्ठेऽह्नि प्रति-विहितान् प्रजाधिपेन । 

नाराशंस्यचरम-चारु-मन्त्र- भेदान् 

ऊचेसौ तमभि - दधद् वि-संशयांश:


पाण्डित्यं परममवेत्य तस्य तादृक् 

सङ्घर्षक्षुभित-मना विपक्ष-सङ्घः । 

नार्थः स्यादयमिति वर्णयन्नथ त्वं 

तं ब्रूहीत्युरु- मतिनेरितोऽद्रवद् द्राक्


सोऽपृच्छत् तमथ महाह्वयोपसर्गा 

यत्रोक्ता मनु-चरणोप- सृज्य- रूपाः । 

तस्यार्थं वचन-चयस्य तं ब्रुवाणः 

स्थैर्य्यार्थं सपदि स लेखयाम्बभूव


सम्पूर्णं शशिनमिवोदितं कृशः श्वा 

चुक्षोभाशुभ - निकरो निरीक्ष्य मध्वम् । 

प्रत्यर्थी स्वयमिति दूरवोऽभिधावन् 

किं तेन क्षतममृताकरस्य तस्य 


निःस्वानां कतिपय-भुक्ति युक्त-भक्तं 

भक्तानां व्यधित चतुर्गुणं दयालुः । 

भुते स्म त्रि - दश-नरोप - भोग्यमन्नं 

सम्प्रीत्यै स धन-वतां बृहत् - प्रबोध:


वृष्ट्यादेः स नि-यमनादि चक्र एत- 

च्चित्रं किं भुवन- नियामके समीरे । 

अप्येवं भुवन-गुरोः कृतानुवादः 

कृत्येषु प्रवर इतीह वर्णयामः


इत्यूचे धरणि-सुरेण केवलं नो

माध्वीयं विविध कथा कथासु मान्या ।

साक्षादप्यमर-वरैरुदीर्य्यमाणा 

गन्धर्वैर्यु-सदसि तन्मुदे जगेऽसौ


तां पद्य-प्रणि-गदितां तु मूर्च्छयित्वा 

तानानामुचित-तयाऽऽत्त-पञ्चमाद्याः । 

गान्धारं द्यु-विषयमुज्ज्वलं सृजन्तो 

ग्रामं ते प्रजगुरकाकि - कम्र कण्ठाः


आनम्रैः सु-मकुट- मौलिभिः कराग्रै-

राताम्रैः प्रति-कलितैः स्मितैर्मुखाब्जैः ।

आश्रावि स्थिर-तर-भक्तिभिः सुरेन्द्रै-

स्तद्-गीता दश-धिषणार्य्य - वर्य्य चर्य्या ॥ ५१ ॥


गीर्वाणैर्विजय-महोत्सवस्य पूजां 

कुर्वाणैरविरळ-संविदस्तदानीम् । 

विस्मेरैर्मुनि-निकरोप- देव-युक्तैः 

सुस्मेरैरथ तमवेक्षितुं प्रजग्मे


आदर्श गुण-गण-दर्शने मुरारे: 

सच्छास्त्रं रचितमनेन वर्णयन्तः । 

प्रद्योतैरुडु - पदवीं प्रकाशयन्तः 

प्रेक्षन्त प्रचुर - मनो- विलासमेते


नाकीन्द्रास्तमवनि-भागमा वसन्तं 

सु-श्लोकैरपि भुवनानि भूषयन्तम् । 

नेमुः खादुप-निषदं तदैतरयीं

व्याख्यान्तं विविध - विशिष्ट - शिष्य मद्ध्ये ॥५४॥


श्रीमन्तं शशि-वदनं कुशेशयाक्षं 

गम्भीर-स्वरमति-दिव्य लक्षणाढ्यम् । 

पश्यन्तः स्व-गुरुमथाऽर्च्चिचन् कृतार्था 

वाण्या तं हरि-रति- पूर्ण काममेते


अहरो दुरागम-तमः स्व-गो-गणै- 

रकरोर्मुकुन्द-गुण-वृन्द-दर्शनम् । 

अजयश्चतुर्द्दश जगन्ति सद् गुणैः 

शरणं गुरो करुणयाsपि नो भवेः


नमस्ते प्राणेश प्रणत-विभवायावनिमगाः

नमः स्वामिन् राम-प्रियतम हनूमन् गुरु-गुण । 

नमस्तुभ्यं भीम प्रबल - तम कृष्णेष्ट भगवन्

नमः श्रीमन् मध्व प्रदिश सुदृशं नो जय-जय ॥ ५७ ॥


इति नि-गदितवन्तस्तत्र वृन्दारकेन्द्रा 

गुरु-विजय-महं तं लाळयन्तो महान्तम् । 

ववृषुरखिल - दृश्यं पुष्प - वारं सु- गन्धं 

ववृषुरखिल-दृश्यं हरि - दयित - वरिष्ठे श्रीमदानन्द-तीर्थे


इति श्रीमत्-कवि-कुल- तिलक- त्रिविक्रम- पण्डिताचार्य्य-

नारायण पण्डिताचार्य्य - विरचिते श्री - मध्वविजये

महाकाव्ये आनन्दाङ्किते षोडशः सर्गः