Sarga 2

अथ द्वितीयः सर्गः


विज्ञान - भानुमति काल-बलेन लीने 

दुर्भाष्य-सन्तमस-सन्तति - तो जनेन्धे

मार्गात् सतां स्खलति खिन्न - हृदो मुकुन्दं 

देवाश्चतुर्मुख-मुखाः शरणं प्रजग्मु


नाथः कलौ त्रि-युग-हूतिरनुद्-बुभूषु- 

ब्रह्माणमप्यनवतारमनादिदिक्षुः । 

सर्वज्ञमन्यमनवेक्ष्य सकार्य्य - वीर्य्यं 

स्मेराननो भुवन- जीवनमाबभाषे


वेदान्त-मार्ग परिमार्गण दीन-दूना 

दैवी: प्रजा विशरणाः करुणा - पदं नः । 

आनन्दयेः सु-मुख भूषित - भूमि - भागो 

रूपान्तरेण मम सद्-गुण-निर्णयेन 


आदेश- मौलि-मणिमुज्ज्वल-वर्णमेनं 

बद्धाञ्जलिर्म्मरुदनर्घमधत्त मूर्ध्ना 

हारावळीमिव हृदा विबुधेन्द्र- याच्ञां 

बिभ्रन्निजाननु-जिघृक्षुरवातितीर्षत्


कालः स एव समवर्त्तत नाम यावत् 

चिन्ता - कुलं विविध-साधु- कुलं बभूव । 

वेदान्त-सन्तत-कृतान्त-रसं न विद्मः 

श्रेयो लभेमहि कथं नु वयं बतेति


तत्-प्रीतये रजत-पीठ-पुराधिवासी 

देवो विवेश पुरुषं शुभ-सूचनाय । 

प्राप्ते महाय महिताय महा-जनौघे 

कोलाहलेन स-कुतूहलिनि प्रवृत्ते


आविष्टवानकुशलं पुरुषं प्रकृत्या 

प्रत्याययन्निह जनान् नितरामनृत्यत् । 

उत्तुङ्ग - केतु-शिखरे स कृताङ्ग-हारो 

रङ्गान्तरे नट इवाखिल-विस्मयात्मा


आभाष्य सोऽत्र जनतां शपथानुविद्धम् 

उच्चैरिदं वचनमुद्धृत-दोर्बभाषे । 

उत्पत्स्यते जगति विश्वजनीन - वृत्ति- 

विश्वज्ञ एव भगवानचिरादिति


स- द्वीप-वारि-निधि सप्तक - भूत धात्र्या 

कर्म्म-भुवि भारत - नाम - खण्डे 

काले कलौ सु-विमलान्वय-लब्ध-जन्मा 

सन्मद्ध्य-गेह-कुल-मौलि-मणिर्द्विजोऽभूत् ॥ ९ ॥


वेदाद्रि-सद्रजत-पीठ-पुरेश्वराभ्यां

ग्रामो विभूषित-तर: शिव-रूप्य - नामा |

हेमाद्रि-राज-विभु-राजदिळा-वृताभ-

स्तस्याभवद् गुरु-गुणः खलु मूल - भूमिः ॥ १० ॥


रामाधिवेशित-हरि-स्वसृ- - मौलि-माला-

राजद्-विमान-गिरि-शोभितमद्ध्युवास ।

क्षेत्रं स पाजक - पदं त्रि-कुलैक-केतुः

कं यद् दधाति सततं खलु विश्व - पाजात् ॥ ११ ॥


अर्थं कमप्यनवमं पुरुषार्थ- हेतुं 

पुंसां प्रदातुमुचितामुचित-स्वरूपाम् । 

कन्यां सुवर्ण - लसितामिव वेद-विद्यां 

जग्राह विप्र-वृषभ - प्रतिपादितां सः


रेमेऽच्छयोपनिषदेव महा - विवेको 

भक्त्येव शुद्ध-करणः परम- श्रिताऽलम् । 

मित्थ्याभिमान-रहितः परयेव मुक्त्या

स्वानन्द-सन्तति-कृता स तया द्विजेन्द्रः ॥ १३ ॥


तस्य प्रभोश्चरणयोः कुल - देवताया

भक्तिं बबन्ध निज - धर्म्म - रतः स धीरः ।

विज्ञात-भारत- - पुराण-महा-रहस्यं

यं भट्ट इत्यभिवदन्ति जना विनीतम् ॥ १४ ॥


गोविन्द-सुन्दर-कथा-सुधया स नृणाम् 

आनन्दयन्न किल केवलमिन्द्रियाणि । 

किन्तु प्रभो रजत-पीठ-पुरे पदाब्जं 

श्री-वल्लभस्य भजतामपि दैवतानाम्


इत्थं हरेर्गुण-कथा-सुधया सु-तृप्तो 

नैर्गुण्य-वादिषु जनेष्वपि साग्रहेषु । 

तत्वे स काल - चलधीरति-संशयालु-

र्धीमान् धिया श्रवण-शोधितया प्रदद्ध्यौ ॥ १६॥


त्राता य एव नरकात् स हि पुत्र-नामा 

मुख्यावनं न सुलभं पुरुषादपूर्णात् । 

तस्मात् समस्त-विदपत्यमवद्यहीनं 

विद्याकराकृति लभेमहि कैरुपायैः


पूर्वेऽपि कर्द्दम - पराशर - पाण्डु-मुख्या 

यत्-सेवया गुण-गणाढ्यमपत्यमापुः । 

तं पूर्ण - षड्गुण- तनुं करुणामृताब्धिं 

नारायणं कुलपतिं शरणं व्रजेम 


इत्थं विचिन्त्य स विचिन्त्यमनन्य- -बन्धुः 

प्रेष्ठ-प्रदं रजत-पीठ-पुराधिवासम् ।

भक्त्या भवाब्धि-भय-भङ्ग - दया शुभात्मा -- 

भेजे भुजङ्ग शयनं द्वि-षडब्द- कालम्


पत्न्या समं भगवतः स भजन् पदाब्जं 

भोगान् लघूनपि पुनर्ल्लघयाञ्चकार । 

दान्तं स्वयं च हृदयं दमयाञ्चकार 

स्वच्छं च देहमधिकं विमलीचकार 


तीव्रैः पयो-व्रत-मुखैर्विविध-व्रताग्र्यै- 

जाया - पती गुण-गणार्णव- पुत्रकामौ । 

सम्पूर्ण - पूरुषमतोषयतां नितान्तं 

देवेरिताविव पुराऽदितिकाश्यपौ तौ


नाथस्य भूरि- करुणा - सुधयाऽभिषिक्तौ 

श्री - श्रीधर - प्रतति-शार- शरीर यष्टी । 

भूरि-व्रत- प्रभव- दिव्य-सुकान्ति मन्तौ 

तौ देह - शुद्धिमति मात्रमथाऽलभेताम् ॥ २२ ॥ 


कान्तादृतौ समुचितेऽथ बभार गर्भ 

सा भू-सुरेन्द्र- दुहिता जगतां हिताय । 

अच्छाम्बरेव रजनी परिपूरिताशा 

भाविन्यपास्त-तमसं विधुमाद्यपक्षात्

-

तं पूर्व-पक्ष - सित बिम्बमिव प्रवृद्धं 

यावद् द्विजेन्द्र-वनिता सुषुवेऽत्र तावत् ।

अंशेन वायुरवतीर्य्य स रूप्य - पीठे

विष्णुं प्रणम्य भवनं प्रययौ तदीयम् ॥ २४ ॥


सम्पूर्ण-लक्षण-चणं नव-राजमान- 

द्वारान्तरं परम-सुन्दरमन्दिरं तत् । 

राजेव सत्-पुर- वरं भुवनाधि - राजो 

निष्कासयन् परमसौ भगवान् विवेश


सन्तुष्यतां सकल-सन्निकरैरसद्भिः 

खिद्येत वायुरयमाविरभूत् पृथिव्याम् । 

आख्यानितीव सुर- दुन्दुभि - मन्द्र- नादः

प्राश्रावि कौतुक - वशैरिह मानुषैश्च


नाथं निषेव्य भवनानति - दूरमाप्तः 

प्राज्ञो मह-प्रकृत-दुन्दभि-नाद-पूर्वात् । 

पुत्रोद्भव - श्रवणतो महदाप्य सौख्यं 

ज्ञानं परोक्ष-पदमप्यमतेष्ट- हेतुम् 


आविश्य वेश्म निज-नन्दनमिन्दु-वक्त्रं 

भूयोऽभिनन्द्य स मुकुन्द - दयां प्रवन्द्य ।

जातस्य तस्य गुण-जात-वहस्य जात- 

कर्म्मादि-कर्म्म-निवहं विदधे सु-कर्म्मा ॥ २८ ॥


ज्ञानार्थमेव यदभूदसु देव एष 

यद् वासुदेव-पद-भक्ति-रतः सदाऽसौ

तद् वासुदेव-पदमन्ववदन् सुरेन्द्रा- 

स्तातेन यन्निगदितं सुत-नाम-कर्त्या


पातुं पयांसि शिशवे किल गो- प्रदोऽस्मै 

पूर्वालयः स्व-सुत - सूनुतया प्रजातः । 

निर्वाण हेतुमलभिष्ट परात्म-विद्यां

दानं ध्रुवं फलति पात्र - गुणानुकूल्यात् ॥ ३० ॥


अत्रस्तमेव सततं परि-फुल्ल-चक्षुः

कान्त्या विडम्बित-नवेन्दु जगत्यनर्घम् ।

तत् पुत्र-रत्नमुपगृह्य कदाचिदाप्तः

स्व-स्वामिने बुध उपायनमार्पयत् सः ॥ ३१ ॥


नत्वा हरिं रजत पीठ - पुरालयं तं 

बालस्य सम्पदमनापदमर्थयित्वा । 

साकं सुतेन परिवार - जनान्वितोऽसौ 

प्रायान्निशीथ - समये निजमेव धाम 


दोषेयुषां सममनेन वनेऽतिभीमे 

तत्-क्रीडित-ग्रह इहैक-तमं तुतोद | 

उद्वान्त-रक्तमवलोक्य तमभ्यधायि 

केनाप्यहो न शिशु-तुत् कथमेष इत्थम् 


आविश्य पूरुषमुवाच महा- ग्रहोऽसौ - 

अस्मद्-विहार-समयोप- -गतान् समस्तान् ।

यच्छक्ति-गुप्ति-रहितानलमस्मि हन्तुं 

लोकेश्वरः स बत बाल - तमः किलेति ॥ ३४॥ 


स्तन्येन बालमनुतोष्य मुहुः स्व-धाम्नो 

माता कदाचन ययौ विरहासहाऽपि । 

विश्वस्य विश्व - परिपालक-पालनाय

कन्यां निजामनु-गुणां किल भीरुरेषा ॥ ३५ ॥ 


सा बालकं प्ररुदितं परि - सान्त्वयन्ती 

मुग्धाक्षरेण वचसाऽनुनिनाय मुग्धा । 

मातात तात सुमुखेति पुनः प्ररोदी- 

र्माता तनोति रुचितं त्वरितं तवेति


रोदे क्रिया-समभि-हारत एव वृत्ते

पोतस्य मातरि चिरादपि नाऽगतायाम् । 

जग्राह बालमथ चैक्षत मातृ-मार्गं

साऽपि क्रिया-समभि - हारत एव बाला ॥ ३७ ॥


कर्त्तव्यमौढ्यमभिपद्य निरूप्य सा तं 

प्राभोजयत् खलु कुलस्थ-कुलं प्रपक्वम् । 

शीतं पयोऽपि सततं परि - पाययन्ती 

यस्योष्ण-रोगमतिवेलमशङ्कताम्बा


नूनं पिपासुरति - रोदिति हन्त बालो 

धिङ् मां दया-विरहितां पर-कृत्य-सक्ताम् ।

इत्याकुला गृहमुपेत्य तदा प्रसन्नं 

पूर्णोदरं सुतमवैक्षत विप्र-पत्नी


पृष्ट्वाऽवगम्य सकलं च ततः प्रवृत्तं 

यूनां च दुस्सहमिदं शिशुनोप-भुक्तम् । 

इत्थं विचिन्त्य तनयां बहु भत्सयन्त्या 

भीतं तयोत कुपितं मनसाऽनुतप्तम् 


आरोग्य-शालिनि पुरेव तदाऽपि पुत्रे 

विस्मेरतामुपजगाम जनन्यमुष्य । 

यस्य त्रिलोक - जननी जननी विषेऽपि 

पीते न विस्मयमवाप समस्त - शक्तेः


स्तन्यं मुहुः किल ददौ जननी गृहीत्वा 

क्षेमाय तं किल दधज्जनको जजाप । 

अन्यो जनोऽपि किल लाळयति स्म किन्तु 

सर्वोऽपि तन्मुख-सुहास-रसायनोत्कः ॥ ४२ ॥


देवादि-सद्भिरनुपालितयाऽऽदरेण

देव्याऽऽत्मनेव विलसत् - पदया नितान्तम् । 

अव्यक्तया प्रथमतो वदनेऽस्य वाण्या 

शालीनयेव भुवनार्च्चितया विज


प्राग् रिङ्खणं स्वयमथ स्थितिमेष चक्रे 

पश्चाद् गतिं परिचयेन किल क्रमेण ।

विश्वस्य चेष्टितमहो यदनुग्रहेण 

सर्वं तदस्य पवनस्य विडम्बनं हि


पुच्छान्तमच्छमव-लम्ब्य कदा चिदेष 

प्रातर्व्रजाद् व्रजत एव निजर्षभस्य । 

प्रायात् प्रियस्य सहसा स्वजनैरदृष्टो 

नाना - वनेषु चरतश्चरतस्तृणानि


उत्तुङ्ग-शृङ्ग-लसितस्य महिष्ठ - मूर्तेः 

पादावृतावनि-तळस्य सु - रन्ध्रकस्य । 

आश्रित्य तस्य शुशुभेऽवयवैक- देशं 

बालो दिवा कर इवोदय - पर्वतस्य


लीलां करोति नु गृहान्तर -गो नु बालः 

कूपान्तरे नु पतितः प्रकृति - स्वतन्त्रः । 

इत्थं विचिन्त्य स मुहुः स्व-जनो विमृग्य 

हन्तानवेक्ष्य तनयं हृदि तापमाप


बालस्य बाल-परि-लम्बन - गोचरं तद् 

व्यश्वस्यतापि वचनं वन- गोचरोक्तम् । 

यत् सायमैक्षत जनः शिशुमाब्रजन्तम् 

एकाब्दकं वृषभ-बाल- कृताव- लम्बम् ॥ ४८ ॥ 


चिन्ता मणीन्द्रमिव चिन्तित - दं दरिद्रो 

विज्ञान-मार्गमिव विष्णु-परं मुमुक्षुः ।

नष्टं च नन्दनमिति स्व-जनोऽस्य लब्ध्वा 

नाथस्य तस्य तमनुग्रहमेव मेने


लीलावसान-समये सहसा कदाचिद् 

आर्योऽमुनाऽभ्यवहृतिं प्रति चोद्यमानः । 

रोद्धैष नोऽस्ति धनिको वृष - विक्रयीति 

प्रोवाच नन्दन- मुखेन्दुमवेक्ष्य मन्दम् ॥ ५० ॥


लीलाकरेण स करेण सु-कोमलेन 

बीजान्तराणि किल कानि - चिदाशु तस्मै ।

स्मित्वाऽर्भकोऽभिमत-निष्क- पदे यदाऽदाद् 

आदत्त तानि धनिको बहुमान - पूर्वम् ॥ ५१ ॥


लब्धं सुतादिति वदन् द्विज-पुङ्गवेन 

कालान्तरे निज-धने प्रतिदित्सितेऽपि । 

साक्षादमानव-नवाकृतितः स लेभे

बीज-च्छलेन पुरुषार्थमहो विशिष्टम् ॥ ५२ ॥


वासुदेवमिह वाऽसु- देवता-

सत्-कलामभि-ननन्द तं जनः ।

वासु-देवमिति वासु-देवसन्- 

नामकं विविध-लीलमर्भकम्

॥ ५३ ॥


इति विहरति मह्यां विष्णु - दासेऽपि गूढे 

समजनि सु जनानां चित्तमानन्द - पूर्णम् ।

उदयति घन-माला-लीन-भानौ च भानौ

ननु जन-नयनाब्जैर्लभ्यतेऽलं विकासः ॥ ५४ ॥


इति श्रीमत्-कवि- -कुल- तिलक- त्रिविक्रम- पण्डिताचार्य्य-सुत- नारायण-पण्डिताचार्य्य - विरचिते श्री - मध्वविजये महाकाव्ये आनन्दाङ्किते द्वितीयः सर्गः