Sarga 7

अथ सप्तमः सर्गः

ततः स विश्वरूपस्य गृहं वव्राज सङ्करः । किमप्यबोधतापाङ्गवीक्षया तत्प्रियाऽमुना ॥ १॥

जघटाते तयोर्मङ्क्षु चेतसी त्वितरेतरम् । निलीनोऽध्वनयद्भिक्षुर्निशीथे प्राङ्गणाद्बहिः ॥२॥

निर्ययेऽकालकूश्माण्डपातकातरया किल । 

तया किञ्चित्परिगते निद्रया निजभर्तरि ॥३॥

बृहत्तमोद्धताङ्गेन स्फारस्फिङ्मसृणत्वचा । 

तैंन दुर्भिक्षुणोत्तुङ्गजघनस्तनयारंमि ॥ ४ ॥

पत्युरेत्य शनैर्नारी समीपेऽशेतविक्लवा । 

कूश्माण्डकथया चैनं प्रबुध्यतमबोधयत् ॥ ५ ॥

ततः प्रातर्विवादेच्छुः सङ्करो विप्रमब्रवीत् । 

जल्पावः प्राश्निकत्वेऽसौ कल्प्यतां दयिता तव ॥ ६ ॥

स आश्रमान्तरं प्रायाद्यः पराभवमेष्यति । 

इत्युक्त्वा तेन सोऽजल्पत्सा पतिं जितमब्रवीत् ॥ ७ ॥

ततः पर्यव्रजद्विप्रस्तया रेमे च सङ्करः । 

क्वचित्तेनासुरेशेन पर्यपश्यत्स मण्डनः ॥ ८ ॥

यो भट्टेन पराभूतो बहुशास्त्राणि शुश्रुवान् । 

निर्ययौ वारणारूढः सन्तं सङ्करमब्रवीत् ॥ ९ ॥

कुतो मुण्ड इति प्राह आगलान्मुण्ड इत्यमुम् । 

मॅण्डनस्त्वाह् पन्थानं पृच्छामीत्यथ सोऽब्रवीत् ॥ १० ॥

किमाह पन्था इति ते माता रण्डेति मण्डनः । 

स्माह तं भिक्षुकः सत्यमाह पन्था इति च्छलम् ॥ ११ ॥

निगृहीतेऽप्रतिभया भैरव्या कुक्कुटेन च । 

क्षोभितो ब्राह्मणः शीघ्रमन्ववर्तत भिक्षुकम् ॥ १२ ॥

तोटकः पद्मपादश्च ज्ञानोच्चो बीजभुक् तथा । 

इत्येते मायिनः शिष्या आसंश्चत्वार उल्बणाः ॥ १३ ॥

सिद्धित्रयमकार्षुस्ते शिष्या ज्ञानोत्तमादयः । 

तोटकादीनि चत्वारि तामसाख्यनिरर्गलम् ॥ १४ ॥

तेषां शिष्यप्रशिष्याद्या यत्याभासास्चतुर्विधाः । 

अबृंहयत वंशान् स्वान् न्यसयन्तः पृथग्जनान् ॥ १५ ॥

दक्षिणाशां ततो गत्वा दग्ध्वा मातुः कलेवरम् । 

आगत्य स्वमठं प्राप्य सङ्करो रोगपीडितः ॥ १६ ॥

ततः काले समायाते श्वासज्वरभगन्दरैः । 

दु:खाद्यैः पीडितस्यास्य वाणी किञ्चिदलीयत ॥ १७ ॥

मुमूषु स्वगुरुं दृष्ट्वा मायिनो वेदविद्विषः । 

भगवान् नः परं कृत्यं किमपृच्छन्ससम्भ्रमः ॥ १८ ॥

स स्माह तान् कृतप्रायं सत्यं कृत्यं महासुरः । 

उत्साद्यतामथ क्षिप्रं परतीर्थार्यशिष्यकाः ॥ १९ ॥

परतीर्थः प्रकृत्यैव शापानुग्रहशक्तिमान् । 

तीव्रतर्कैस्तपोभिश्च प्रवया अत्यजत्तनुम् ॥ २०॥

सत्यप्रज्ञो दुराधर्षः शक्तोऽपीह हरिद्विषाम् । 

ऋषिभ्यो हिमवत्पृष्ठे श्रुतीर्व्याख्यात्यगोचरः ॥२१॥

तच्छिष्यो निपुणः शान्तो वेदवेदान्तकोविदः । 

श्रुतीर्व्याख्याति शिष्येभः पञ्चषेभ्यस्तपोमयः ॥२२॥

नान्योऽस्ति सम्प्रदायज्ञः श्रुतेर्दैतेयपुङ्गवाः । 

एत्य हंसानिमान् क्षिप्रमुत्सादयत निर्भयाः ॥ २३॥

आदिश्येत्थं बलवतः शिष्यानन्यान्महासुरान् । 

आहूय चतुरो दैत्यानाहान्तेवासिनोऽसुरः ॥ २४ ॥

बीजादं शृणुतास्माकमेष्यन्तं भवसङ्कटम् । 

इत्युक्तास्ते दशदिशः परिभ्रम्य समागताः ॥२५॥

किमपश्यत बीजादः किमवोचत्स मे गतिम् । 

इत्युक्तास्ते स्वगुरुणा रहस्तं प्रत्यचक्षत ॥ २६॥

गुरोः का नो गतिरिति दृष्टं दृष्टं नरं प्रति । 

विचार्याप्युत्तरं नाप्तमित्येकः पुनरब्रवीत् ॥ २७॥

द्वयं सङ्करस्यास्ति पद्मस्य चैकं ममैकं च नैकं नैकं च नास्ति । गिरेत्येतया कन्दुकक्रीडमेकमवेक्ष्येऽन्त्यजं पक्कणान्ते क्वचेति ॥ २८ ॥ 

हा हा बीजादेष गूढो मदीयो भूयस्तात व्यापृतोऽहं गुणेषु ।

किं वास्माकं भावि का वा गतिः स्यादित्थं जल्पन्नाप दीर्घा स निद्राम् ॥ २९ ॥


॥ इति श्रीमन्मणिमञ्जर्यां सप्तमः सर्गः ॥


--------------


atha saptamaḥ sargaḥ


tataḥ sa viśvarūpasya gṛhaṃ vavrāja saṅkaraḥ । kimapyabōdhatāpāṅgavīkṣayā tatpriyā'munā ॥ 1॥

jaghaṭātē tayōrmaṅkṣu cētasī tvitarētaram । nilīnō'dhvanayadbhikṣurniśīthē prāṅgaṇādbahiḥ ॥2॥

niryayē'kālakūśmāṇḍapātakātarayā kila । tayā kiñcitparigatē nidrayā nijabhartari ॥3॥

bṛhattamōddhatāṅgēna sphārasphiṅmasṛṇatvacā । taiṃna durbhikṣuṇōttuṅgajaghanastanayāraṃmi ॥ 4 ॥

patyurētya śanairnārī samīpē'śētaviklavā । kūśmāṇḍakathayā cainaṃ prabudhyatamabōdhayat ॥ 5 ॥

tataḥ prātarvivādēcchuḥ saṅkarō vipramabravīt । jalpāvaḥ prāśnikatvē'sau kalpyatāṃ dayitā tava ॥ 6 ॥

sa āśramāntaraṃ prāyādyaḥ parābhavamēṣyati । ityuktvā tēna sō'jalpatsā patiṃ jitamabravīt ॥ 7 ॥

tataḥ paryavrajadviprastayā rēmē ca saṅkaraḥ । kvacittēnāsurēśēna paryapaśyatsa maṇḍanaḥ ॥ 8 ॥

yō bhaṭṭēna parābhūtō bahuśāstrāṇi śuśruvān । niryayau vāraṇārūḍhaḥ santaṃ saṅkaramabravīt ॥ 9 ॥

kutō muṇḍa iti prāha āgalānmuṇḍa ityamum । maॅṇḍanastvāh panthānaṃ pṛcchāmītyatha sō'bravīt ॥ 10 ॥

kimāha panthā iti tē mātā raṇḍēti maṇḍanaḥ । smāha taṃ bhikṣukaḥ satyamāha panthā iti cchalam ॥ 11 ॥

nigṛhītē'pratibhayā bhairavyā kukkuṭēna ca । kṣōbhitō brāhmaṇaḥ śīghramanvavartata bhikṣukam ॥ 12 ॥

tōṭakaḥ padmapādaśca jñānōccō bījabhuk tathā । ityētē māyinaḥ śiṣyā āsaṃścatvāra ulbaṇāḥ ॥ 13 ॥

siddhitrayamakārṣustē śiṣyā jñānōttamādayaḥ । tōṭakādīni catvāri tāmasākhyanirargalam ॥ 14 ॥

tēṣāṃ śiṣyapraśiṣyādyā yatyābhāsāscaturvidhāḥ । abṛṃhayata vaṃśān svān nyasayantaḥ pṛthagjanān ॥ 15 ॥

dakṣiṇāśāṃ tatō gatvā dagdhvā mātuḥ kalēvaram । āgatya svamaṭhaṃ prāpya saṅkarō rōgapīḍitaḥ ॥ 16 ॥

tataḥ kālē samāyātē śvāsajvarabhagandaraiḥ । du:khādyaiḥ pīḍitasyāsya vāṇī kiñcidalīyata ॥ 17 ॥

mumūṣu svaguruṃ dṛṣṭvā māyinō vēdavidviṣaḥ । bhagavān naḥ paraṃ kṛtyaṃ kimapṛcchansasambhramaḥ ॥ 18 ॥

sa smāha tān kṛtaprāyaṃ satyaṃ kṛtyaṃ mahāsuraḥ । utsādyatāmatha kṣipraṃ paratīrthāryaśiṣyakāḥ ॥ 19 ॥

paratīrthaḥ prakṛtyaiva śāpānugrahaśaktimān । tīvratarkaistapōbhiśca pravayā atyajattanum ॥ 20॥

satyaprajñō durādharṣaḥ śaktō'pīha haridviṣām । ṛṣibhyō himavatpṛṣṭhē śrutīrvyākhyātyagōcaraḥ ॥21॥

tacchiṣyō nipuṇaḥ śāntō vēdavēdāntakōvidaḥ । śrutīrvyākhyāti śiṣyēbhaḥ pañcaṣēbhyastapōmayaḥ ॥22॥

nānyō'sti sampradāyajñaḥ śrutērdaitēyapuṅgavāḥ । ētya haṃsānimān kṣipramutsādayata nirbhayāḥ ॥ 23॥

ādiśyētthaṃ balavataḥ śiṣyānanyānmahāsurān । āhūya caturō daityānāhāntēvāsinō'suraḥ ॥ 24 ॥

bījādaṃ śṛṇutāsmākamēṣyantaṃ bhavasaṅkaṭam । ityuktāstē daśadiśaḥ paribhramya samāgatāḥ ॥25॥

kimapaśyata bījādaḥ kimavōcatsa mē gatim । ityuktāstē svaguruṇā rahastaṃ pratyacakṣata ॥ 26॥

gurōḥ kā nō gatiriti dṛṣṭaṃ dṛṣṭaṃ naraṃ prati । vicāryāpyuttaraṃ nāptamityēkaḥ punarabravīt ॥ 27॥

dvayaṃ saṅkarasyāsti padmasya caikaṃ mamaikaṃ ca naikaṃ naikaṃ ca nāsti । girētyētayā kandukakrīḍamēkamavēkṣyē'ntyajaṃ pakkaṇāntē kvacēti ॥ 28 ॥ 

hā hā bījādēṣa gūḍhō madīyō bhūyastāta vyāpṛtō'haṃ guṇēṣu ।

kiṃ vāsmākaṃ bhāvi kā vā gatiḥ syāditthaṃ jalpannāpa dīrghā sa nidrām ॥ 29 ॥



॥ iti śrīmanmaṇimañjaryāṃ saptamaḥ sargaḥ ॥