अथ चतुर्थः सर्गः
कृष्णाया: कालियं त्यक्त्वा पीत्वा दावाग्निमुल्बणम् । से विषद्रुममुच्छिद्य दैत्यान् गोवपुषोऽहनत् ॥ १ ॥
स सप्तोक्षवधाल्लेभे नीलां गोपालकन्यकाम् । बलेन धेनुकं हत्वा जघानान्यान् खरान् स्वयम् ॥२॥
प्रलम्बे बलभद्रेण हते दावं पपौ पुनः । नन्दजो वज्ररक्षार्थं कृपासिन्धुर्हि माधवः ॥३॥
विप्रपत्नीभिरानीतं तद्गृहान्तिकमागतः ।
सोऽन्नं सानुचरो भुक्त्वा चक्रे तासामनुग्रहम् ॥ ४॥
मख भङ्गरुषेन्द्रेणादिष्टैर्मेघैर्वृतां हरिः ।
वृष्टिं सोढुमशक्तान् स्वान् ररक्षोद्धृत्य पर्वतम् ॥ ५ ॥
आर्यानुग्रहसम्प्राप्तकामा गोपाङ्गनास्ततः । रमयामास गोविन्दश्चिरमैषीषु रात्रिषु ॥ ६ ॥
सुरूपीणां च गोपीनां मण्डले भगवान् स्वयम् । ननर्त वेणुना गायन् रासक्रीडामहोत्सवे ॥ ७ ॥
शङ्खचूडासुरं हत्वारिष्टं केशिनमप्यथ । मयपुत्रं पुनर्व्योमं स चक्रे व्रजरक्षणम् ॥८॥
कंसप्रेषितमक्रूरं दृष्ट्वा सम्भाव्य तं हरिः । तेन साकं ययौ देवो मधुरां बलसंयुतः ॥ ९॥
भङ्गत्वा कंसधनुः शार्वं हत्वाम्बष्टं च वारणम् ।
चाणूरमुष्टिक हत्वा सबलः शुशुभे हरिः ॥ १० ॥
मञ्चस्थं मातुलं कंसं मूर्ध्नि सङ्गृह्य माधवः । निपात्य निष्पिपेषोच्चैर्धरिण्यां स ममार च ॥ ११ ॥
तद्बलं सकलं हत्वा जनान् सर्वाननन्दयत् । विमुच्य निगडादीशः पितरावभ्यवन्दत ॥ १२ ॥
पुत्रीवैधव्यसङ्क्रुद्धमभियान्तं जरासुतम् । सबलोऽभ्यर्दयत् कृष्णो हत्वा तत्सैनिकान् मुहुः ॥ १३ ॥
पाण्डुर्वने मृतः पार्था आनीता मुनिभिः पुरम् । पीड्यन्ते कुरुभिः स्वैरमित्याश्रावि मधुद्विषा ॥ १४ ॥
अक्रूरं प्रेषयामास कृश्णो नागपुरं प्रति । कुरूणामनयं ज्ञात्वा धृतराष्ट्रमुवाच सः ॥ १५ ॥
तव पुत्रा न सन्त्येव भीमसेनाग्निभस्मिताः । इत्युक्त्वा भीमपार्थाभ्यां सहितः प्रययौ पुरीम् ॥ १६ ॥
पूजयन्तौ हरिं पार्थौ पूजितौ सर्वयादवैः । ऊषतुः सुचिरं तत्र भक्तिज्ञानामृताशनौ ॥ १७ ॥
उद्धवं प्रेषयामास व्रजशोकापनुत्तये । भगवान् मगधाधीशं पुनरभ्यर्दयद् युधि ॥ १८ ॥
स सृगालाधिपं हत्वा तत्पुत्रं पर्यपालयत् । इति चित्राणि कर्माणि चकार पुरुषोत्तमः ॥ १९ ॥
भीष्मकस्य सुतां देवीं रुक्मिणीमवह्त्ततः । विज्ञानानन्दरूपिण्या स रेमे रमया तया ॥ २० ॥
लब्धं सत्राजिता सूर्यात् स सिंहापहृतं ततः । रत्नं जाम्बवता नीतं जाम्बवत्या सहानयत् ॥ २१ ॥
सत्राजिते ददौ रत्नं तेन दत्तां सरत्नकाम् । सत्यभामामुदवहत् सक्षाल्लक्ष्मीं परात्परः ॥ २२ ॥
हतवान् सानुजं हंसं कृष्णो रेमे स्वधामनि ।
पुत्रान् प्रद्युम्नसाम्बादीन् रुक्मिण्याद्यास्वजीजनत् ॥ २३ ॥
पाण्डवा द्रोणमासाद्य कृतशस्त्रास्त्रशिक्षणाः । सर्वविद्यातिशयिनो मुमुदुः कृष्णसङ्गताः ॥ २४ ॥
सम्भाविता भगवता पाण्डवा: स्नेहसम्भृता: । अनुज्ञाताः पुरं जग्मुः सदा तद्भक्तितत्पराः ॥ २५ ॥
स्वामित्वेन सुहृत्वेन बन्धुत्वेन च पाण्डवाः । सुखित्वेन गतित्वेन तमेव शरणं ययुः ॥ २६॥
पुरान्निर्यापिता दुष्टैर्हिडिम्बं च बकं तथा । निहत्य पाण्डवाः प्रापुः कृष्णं कृष्णा स्वयंवरे ॥ २७ ॥
लब्धकृष्णाननुज्ञाप्य पाण्डवान् स्वपुरं गतः । निहत्य शतधन्वानं पार्थानामन्तिकं ययौ ॥ २८ ॥
कारयित्वा हरिप्रस्थं तत्र पार्थान्निवेश्य सः । उपयेमे च कालिन्दीं द्वारकामाप माधवः ॥ २९ ॥
नीलां नग्नजितः पुत्रीं मित्रविन्दां पितृष्वसुः । भद्रां च कैकयसुतां लक्षणां स्वां च सोऽवहत् ॥ ३० ॥
सोऽप्याश्चर्यतमो धन्यो भौमं हत्वा दिवं गतः । अपाहरत् पारिजातं पराजित्य पुरन्दरम् ॥ ३१ ॥
महिषीणां सहस्राणि षोडशावहदच्युतः । शतं च तासु प्रत्येकं पुत्रा दशदशाभवन् ॥३२॥
द्यूते जिताः कृतारण्यवासा अज्ञातवासतः । पारङ्गता उपल्लाव्ये पार्थास्तं प्रति लेभिरे ॥ ३३ ॥
दौत्येन वञ्चयित्वारीन् प्रायो भीमेन सर्वशः । जघान कृतसारथ्यः कृष्णः पार्थानपाद्धरिः ॥३४॥
वायुर्वंशानिवान्योन्यं प्रतिघट्टनसम्भवैः ।
वैरवैश्वानरज्वालैः सञ्जहार हरिर्यद्न् ॥ ३५ ॥
5 तद्भावतत्पराः
4 कृष्णां
6 सो'थ
उद्धवं सनकादींश्च दुर्वासप्रभृतींश्च सः ।
न्ययुङ्क्त सर्ववेदान्तवर्तने सहशिष्यकान् ॥ ३६॥
एवं चित्रचरित्रस्तु कृष्णोऽनुज्ञाप्य पाण्डवान् ।
रूपेणैकेनास भूमावेकेन स दिवं ययौ ॥ ३७ ॥
एवं कृष्णसहायास्ते पार्था दुर्योधनादिकान् ।
श्रीकृष्णद्वेषिणो हत्वा सकृष्णाः कृष्णमन्वयुः ॥ ३८ ॥
अथाभिमन्योस्तनयः परीक्षिद्राजा सवज्रो जगतीं विजित्य । सर्वात्मभावं परमे दधानः साम्राज्यलक्ष्मीमुपलभ्य रेमे ॥ ३९ ॥
॥ इति श्रीमन्मणिमञ्जर्यां चतुर्थः सर्गः ॥
---------------------
atha caturthaḥ sargaḥ
kṛṣṇāyā: kāliyaṃ tyaktvā pītvā dāvāgnimulbaṇam । sē viṣadrumamucchidya daityān gōvapuṣō'hanat ॥ 1 ॥
sa saptōkṣavadhāllēbhē nīlāṃ gōpālakanyakām । balēna dhēnukaṃ hatvā jaghānānyān kharān svayam ॥2॥
pralambē balabhadrēṇa hatē dāvaṃ papau punaḥ । nandajō vajrarakṣārthaṃ kṛpāsindhurhi mādhavaḥ ॥3॥
viprapatnībhirānītaṃ tadgṛhāntikamāgataḥ ।
sō'nnaṃ sānucarō bhuktvā cakrē tāsāmanugraham ॥ 4॥
makha bhaṅgaruṣēndrēṇādiṣṭairmēghairvṛtāṃ hariḥ ।
vṛṣṭiṃ sōḍhumaśaktān svān rarakṣōddhṛtya parvatam ॥ 5 ॥
āryānugrahasamprāptakāmā gōpāṅganāstataḥ । ramayāmāsa gōvindaściramaiṣīṣu rātriṣu ॥ 6 ॥
surūpīṇāṃ ca gōpīnāṃ maṇḍalē bhagavān svayam । nanarta vēṇunā gāyan rāsakrīḍāmahōtsavē ॥ 7 ॥
śaṅkhacūḍāsuraṃ hatvāriṣṭaṃ kēśinamapyatha । mayaputraṃ punarvyōmaṃ sa cakrē vrajarakṣaṇam ॥8॥
kaṃsaprēṣitamakrūraṃ dṛṣṭvā sambhāvya taṃ hariḥ । tēna sākaṃ yayau dēvō madhurāṃ balasaṃyutaḥ ॥ 9॥
bhaṅgatvā kaṃsadhanuḥ śārvaṃ hatvāmbaṣṭaṃ ca vāraṇam ।
cāṇūramuṣṭika hatvā sabalaḥ śuśubhē hariḥ ॥ 10 ॥
mañcasthaṃ mātulaṃ kaṃsaṃ mūrdhni saṅgṛhya mādhavaḥ । nipātya niṣpipēṣōccairdhariṇyāṃ sa mamāra ca ॥ 11 ॥
tadbalaṃ sakalaṃ hatvā janān sarvānanandayat । vimucya nigaḍādīśaḥ pitarāvabhyavandata ॥ 12 ॥
putrīvaidhavyasaṅkruddhamabhiyāntaṃ jarāsutam । sabalō'bhyardayat kṛṣṇō hatvā tatsainikān muhuḥ ॥ 13 ॥
pāṇḍurvanē mṛtaḥ pārthā ānītā munibhiḥ puram । pīḍyantē kurubhiḥ svairamityāśrāvi madhudviṣā ॥ 14 ॥
akrūraṃ prēṣayāmāsa kṛśṇō nāgapuraṃ prati । kurūṇāmanayaṃ jñātvā dhṛtarāṣṭramuvāca saḥ ॥ 15 ॥
tava putrā na santyēva bhīmasēnāgnibhasmitāḥ । ityuktvā bhīmapārthābhyāṃ sahitaḥ prayayau purīm ॥ 16 ॥
pūjayantau hariṃ pārthau pūjitau sarvayādavaiḥ । ūṣatuḥ suciraṃ tatra bhaktijñānāmṛtāśanau ॥ 17 ॥
uddhavaṃ prēṣayāmāsa vrajaśōkāpanuttayē । bhagavān magadhādhīśaṃ punarabhyardayad yudhi ॥ 18 ॥
sa sṛgālādhipaṃ hatvā tatputraṃ paryapālayat । iti citrāṇi karmāṇi cakāra puruṣōttamaḥ ॥ 19 ॥
bhīṣmakasya sutāṃ dēvīṃ rukmiṇīmavahttataḥ । vijñānānandarūpiṇyā sa rēmē ramayā tayā ॥ 20 ॥
labdhaṃ satrājitā sūryāt sa siṃhāpahṛtaṃ tataḥ । ratnaṃ jāmbavatā nītaṃ jāmbavatyā sahānayat ॥ 21 ॥
satrājitē dadau ratnaṃ tēna dattāṃ saratnakām । satyabhāmāmudavahat sakṣāllakṣmīṃ parātparaḥ ॥ 22 ॥
hatavān sānujaṃ haṃsaṃ kṛṣṇō rēmē svadhāmani ।
putrān pradyumnasāmbādīn rukmiṇyādyāsvajījanat ॥ 23 ॥
pāṇḍavā drōṇamāsādya kṛtaśastrāstraśikṣaṇāḥ । sarvavidyātiśayinō mumuduḥ kṛṣṇasaṅgatāḥ ॥ 24 ॥
sambhāvitā bhagavatā pāṇḍavā: snēhasambhṛtā: । anujñātāḥ puraṃ jagmuḥ sadā tadbhaktitatparāḥ ॥ 25 ॥
svāmitvēna suhṛtvēna bandhutvēna ca pāṇḍavāḥ । sukhitvēna gatitvēna tamēva śaraṇaṃ yayuḥ ॥ 26॥
purānniryāpitā duṣṭairhiḍimbaṃ ca bakaṃ tathā । nihatya pāṇḍavāḥ prāpuḥ kṛṣṇaṃ kṛṣṇā svayaṃvarē ॥ 27 ॥
labdhakṛṣṇānanujñāpya pāṇḍavān svapuraṃ gataḥ । nihatya śatadhanvānaṃ pārthānāmantikaṃ yayau ॥ 28 ॥
kārayitvā hariprasthaṃ tatra pārthānnivēśya saḥ । upayēmē ca kālindīṃ dvārakāmāpa mādhavaḥ ॥ 29 ॥
nīlāṃ nagnajitaḥ putrīṃ mitravindāṃ pitṛṣvasuḥ । bhadrāṃ ca kaikayasutāṃ lakṣaṇāṃ svāṃ ca sō'vahat ॥ 30 ॥
sō'pyāścaryatamō dhanyō bhaumaṃ hatvā divaṃ gataḥ । apāharat pārijātaṃ parājitya purandaram ॥ 31 ॥
mahiṣīṇāṃ sahasrāṇi ṣōḍaśāvahadacyutaḥ । śataṃ ca tāsu pratyēkaṃ putrā daśadaśābhavan ॥32॥
dyūtē jitāḥ kṛtāraṇyavāsā ajñātavāsataḥ । pāraṅgatā upallāvyē pārthāstaṃ prati lēbhirē ॥ 33 ॥
dautyēna vañcayitvārīn prāyō bhīmēna sarvaśaḥ । jaghāna kṛtasārathyaḥ kṛṣṇaḥ pārthānapāddhariḥ ॥34॥
vāyurvaṃśānivānyōnyaṃ pratighaṭṭanasambhavaiḥ ।
vairavaiśvānarajvālaiḥ sañjahāra hariryadn ॥ 35 ॥
4 tadbhāvatatparāḥ
5 kṛṣṇāṃ
6 sō'tha
uddhavaṃ sanakādīṃśca durvāsaprabhṛtīṃśca saḥ । nyayuṅkta sarvavēdāntavartanē sahaśiṣyakān ॥ 36॥
ēvaṃ citracaritrastu kṛṣṇō'nujñāpya pāṇḍavān । rūpēṇaikēnāsa bhūmāvēkēna sa divaṃ yayau ॥ 37 ॥
ēvaṃ kṛṣṇasahāyāstē pārthā duryōdhanādikān । śrīkṛṣṇadvēṣiṇō hatvā sakṛṣṇāḥ kṛṣṇamanvayuḥ ॥ 38 ॥
athābhimanyōstanayaḥ parīkṣidrājā savajrō jagatīṃ vijitya । sarvātmabhāvaṃ paramē dadhānaḥ sāmrājyalakṣmīmupalabhya rēmē ॥ 39 ॥
॥ iti śrīmanmaṇimañjaryāṃ caturthaḥ sargaḥ ॥